SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra <] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वितीयं कांडम्. व्यूहस्तु बलविन्यासो भेदा दंडादयो युधि ॥ प्रत्यासारो व्यूहपाणिः सैन्यष्टष्ठे प्रतिग्रहः ।। ७९ ।। एकेभैकरथा त्र्यश्वापत्तिः पंचपदातिका ॥ पत्यंगैस्त्रिगुणैः सर्वैः क्रमादाख्या यथोत्तरम् ॥ ८० ॥ For Private And Personal १९९ बलस्य सैन्यस्य विन्यासो युद्धार्थे रचनाविशेषेण स्थापनं व्यूह इत्येकं “ विहू इति ख्यातस्य ।" व्यूहलक्षणम् । मुखे रथा हयाः पृष्ठे तत्पृष्ठे च पदातयः । पा 66 " 99 योश्च गजाः कार्या व्यूहोऽयं परिकीर्तित इति । युधि दंडादयो भेदाः विशेषाः व्यूहस्येति शेषः । सैन्यस्य दंडवत्तिर्यगवस्थानं दंड: | आदिना भोगमंडलादयः । यदाह कामंदकः । तिर्यग्वृत्तिस्तु दंड: स्याद्भोगोऽन्वावृत्तिरेव च । मंडल: सर्वतो वृत्तिः पृथग्वृत्तिरसंहत इति । तत्र अन्योन्यागतावृत्तिर्भोगः सर्पशरीरवदवस्थानं मंडलः । गजादीनां विजातीयैरमिश्रितानां स्थानम संहतः । एतेषां च शकटमकरपताकासर्वतोभद्रदुर्जयादयो भेदाः प्रत्येकं संति । प्रत्यासारः व्यूहपाणि: द्वे व्यूहपश्चाद्भागस्य । प्रत्यासारयति भग्नान्प्रत्यासारः । “प्रत्यासर इत्यपि । सैन्यपृष्ठः प्रतिग्रहः "" परिग्रहः पतगृह इत्यपि " द्वे सेनायाः पश्चाद्भागस्य । प्रतिगृह्यते ऽवष्टभ्यते सैन्यमनेन प्रतिग्रहः ॥ ७९ ॥ एक भो यस्यां सा एकेभा । एको रथो यस्यां सा । त्रयो ऽश्वा यस्यां सा । "पंच पदातयो यत्र सा । एतद्विशेषणचतुष्टयविशिष्टा सेना पत्तिः स्यात् । यदुक्तम् । एको रथो गजश्चैको नराः पंच पदातयः । त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयत इतेि एकम् । पत्त्यंगैः पत्तेरवयवैर्गजादिभिस्त्रिगुणैर्यथोत्तरं क्रमात्सेनामुखादय आख्याः स्युः || ८० ॥ तद्यथा । त्रिसृभिः पत्तिभिः सेनामुखम् । त्रिभिः सेनामुखैर्गुल्मः । गुल्मत्रयेण गणः । त्रिभिर्गणैर्वाहिनी । तिसृभिः वाहिनीभिः पृतना । पृतनात्रयेण चमूः । एतत्रयेणा ऽनीकिनी । तत्रयेण दशानीकिनी । तत्रयेण अक्षौ - हिणी । तथा च । अक्षौहिण्यामित्यधिकैः सप्तत्या ह्यष्टभिः शतैः । संयुक्तानि सहस्राणि गजानामेकविंशतिः २१८७० । एवमेव रथानां तु संख्यानं कीर्तितं बुधैः २१८७० | पंचषष्टिसहस्राणि षट्शतानि दशैव तु । संख्यातास्तुरगास्तज्ज्ञैर्विना रथतुरंगमैः ६५६१० । नृणां शतसहस्राणि सहस्राणि तथा नव । शतानि त्रीणि चान्यानि पंचाशच पदातयः १०९३५० । इत्येकैकम् । भारते अक्षौहिणीप्रमाणम् ।
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy