SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १९८ सटीकामरकोशंस्य क्षत्रियवर्गः तरखी त्वरितो वेगी प्रजवी जवनो जवः॥७३॥ जय्यो यः शक्यते जेतुं जेयो जेतव्यमात्रके॥ जैत्रस्तु जेता यो गच्छत्यलं विदिषतः प्रति ॥७॥ सो ऽभ्यमित्र्यो ऽभ्यमित्रीयोऽप्यभ्यमित्रीण इत्यपि ॥ ऊर्जस्वलः स्यादूर्जस्वी य ऊर्जातिशयान्वितः॥७५॥ स्यादुरखानुरसिलो रथिनो रथिको रथी॥ कामंगाम्यनुकामीनो ह्ययंतीनस्तथा भृशम् ॥ ७६ ॥ शूरो वीरथ विक्रांतो जेता जिष्णुच जित्वरः॥ सांयुगीनो रणे साधुः शस्त्राजीवादयस्त्रिषु ॥७७॥ ध्वजिनी वाहिनी सेना एतना ऽनीकिनी चमूः॥ वरूथिनी बलं सैन्यं चक्र चानीकमस्त्रियाम् ॥ ७॥ जवः षटं त्वरितमात्रस्य ॥७३॥ यो जेतुं शक्यते स जय्यः । यथा रामेण रावणो जय्यः । रावणं जेतुं रामः शक्रोत्येवेत्यर्थः एकम् । जेय इत्येकं जेतव्यमात्रे । यथा जेयं मनः । न तु जय्यम् । जैत्रः जेता द्वे जेतुः ॥ ७४ ॥ यो विद्वि. षतः शत्रून् प्रति अलं सामर्थ्येन योद्धं संमुखं गच्छति स अभ्यमित्र्यः अभ्यमित्रीयः अभ्यमित्रीण इति च स्यात् त्रीणि । य ऊर्जस्य पराक्रमस्यातिशयेन युक्तः स ऊर्जस्वलः ऊर्जस्वी इति च स्यात् द्वे । “ऊर्जशब्दो ऽदंतः सांतश्च । ऊर्जाऽतिशयान्वित इत्यपि पाठः” ॥ ७५ ॥ उरस्वान उरसिल: “विशालवक्षसः ।" उरस्वंतौ । रथिनः “रथिर इत्यपि" रथिक: रथी त्रीणि रथस्वामिनः । रथोऽस्यास्तीति रथिनो ऽदंतः । यः कामंगामी यथेच्छं गच्छति तच्छील: सो ऽनुकामीनः स्यात् । "कामगामीत्यपि” एकम् । तथेति गामिसमुच्चये । यो भृशं गामी अत्यर्थ गमनशी लः सोऽत्यंतीनः एकम् ॥ ७६॥ शूरः वीरः विक्रांत: त्रीणि शूरस्य । जेता जिष्णुः जित्वरः त्रीणि जयनशीलस्य । रणे संयुगे साधुः सांयुगीनः एकं "युद्धकुशलस्य ।” शस्त्राजीवे कांडपृष्ठेति यत्प्रागुक्तं तदादयः “ सांयुगीनांताः” त्रिषु । वाच्यालिंगत्वात् ॥ ७७ ॥ ध्वजिनी वाहिनी सेना पृतना अनीकिनी चमूः वरू. थिनी बलं सैन्यं चक्रं अनीकं एकादश सेनायाः । “पुंसि अनीकः” ॥ ७८ ॥ For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy