SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वितीयं कांडम्. धन्वी धनुष्मान्धानुमको निषंग्यस्त्री धनुर्धरः॥ स्यात्कांडवांस्तु कांडीरः शाक्तीकः शक्तिहेतिकः॥ ६९॥ याष्टीकपारश्वधिको यष्टिपार्श्वधहेतिकौ ॥ नैस्त्रिंशिको ऽसिहेतिः स्यात्समौ प्रासिककौंतिकौ ॥७॥ चर्मी फलकपाणिः स्यात्पताकी वैजयंतिकः॥ अनुप्लवः सहायश्चाऽनुचरोऽभिचरः समाः॥७१ ॥ पुरोगाग्रेसरप्रष्ठाग्रतःसरपुरःसराः॥ पुरोगमः पुरोगामी मंदगामी तु मंथरः॥७२॥ जंघालो ऽतिजवस्तुल्यौ जंघाकरिकजांघिको ॥ त्त्वादुपाधिभेदाद्वा धनुर्धरतो भिन्नः । शाक्तीकः शक्तिहेतिकः “द्वे शक्त्यायुधधारकस्य ।” शक्तिः प्रहरणमस्य शाक्तीकः । शक्तियष्टयोरीकक् ॥ ६९ ॥ यष्टिहेतिको याष्टीकः एकं “दांडेवाला इति ख्यातस्य ।"' परश्वधः परशुः स हेतिर्यस्य सः पारश्वधिकः स्यात् एकं “फरशीकरी गडासेकरी इति ख्यातस्य ।" यष्टिस्वधितिहेतिकावित्यपि पाठः । असिः खडः हेतिः शस्त्रमस्य स नौस्त्रंशिक: एकं “निमचेकरी इति ख्यातस्य ।” प्रासिकः “एकं प्रासायुधहेतिकस्य बल्लमकरी विटेकरी सांगकरी इति ख्यातस्य ।" कौंतिकः कुंतहेतिकस्य "भालेकरी इति ख्यातस्यैकम् ।" कुंतो भल्लः ॥ ७० ॥ चर्मी फलकपाणिः द्वे चर्मधारिण: " ढालाईत इति ख्यातस्य ।” फलति विशीर्यते फलकचर्म पाणौ यस्य । पताकी वैजयंतिकः द्वे पताकां बिभ्रत: “ निशाणकरी, जरीपटकेकरी इति ख्यातस्य ।" वैजयंत्या चरति वैजयंतिकः । अनुप्लवः सहायः अनुचरः अभिचरः चत्वारि अनुचरस्य ॥७१॥ पुरोगः अग्रेसरः “अग्रसरोऽपि" प्रष्ठः अग्रतःसरः पुरःसरः पुरोगमः पुरोगामी सप्त पुरोगामिनः । प्रतिष्ठते प्रष्ठः । मंदगामी मंथरः द्वे “शनैर्गामिनः" ॥ ७२ ॥ जंघाल: “जंघिलः । प्रज्ञालप्रज्ञिलौ तुल्यौ जंघालजंघिलादय इति वाचस्पतिः ।" अतिजवः “अतिबल इत्यपि" द्वयमतिवेगवतः । जंघाकरिकः जांघिकः “जंघासाध्यत्वादुपचाराद्गतिजंघा ।" यो जंघावलेन जीवति तत्र द्वयम् । तरस्वी त्वरितः वेगी प्रजवी जवनः For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy