SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १९६ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य शीर्षण्यं च शिरस्त्रे ऽथ तनुत्रं वर्म दंशनम् ॥ उरच्छदः कंकटको जंगरः कवचो ऽस्त्रियाम् ॥ ६४ ॥ आमुक्तः प्रतिमुक्तश्च पिनद्धश्रापिनदवत || सन्नद्धो वर्मितः सज्जो दर्शितो व्यूढकंकटः ॥ ६५ ॥ त्रिवामुक्तादयो वर्मभृतं कावचिकं गणे ॥ पदातिपत्तिपदगपादार्तिकपदाजयः ॥ ६६ ॥ पद्मश्र पदिकश्राऽथ पादातं पत्निसंहतिः ॥ शस्त्राजीवे कांडष्टष्ठा युधीया युधिकाः समाः ॥ ६७ ॥ कृतहस्तः सुप्रयोगविशिखः कृतपुंखवत ॥ अपराद्धष्टषत्को ऽसौ लक्ष्याद्यभ्युतसायकः ॥ ६८ ॥ For Private And Personal [क्षत्रियवर्ग प्रसिद्धस्य | " क्लीवे तु कवचम् " ॥ ६४ ॥ आमुक्तः प्रतिमुक्तः पिनद्धः अपिनद्धः । वष्टिभागुरीत्यल्लोपविकल्पः चत्वारि परिहितकंचुकादेः । आमुच्यते बध्यतें स्म आमुक्तः । सन्नद्धः वर्मितः सज्ज : दंशितः व्यूढकंकटः पंच कवचभृतः । सन्नह्यति स्म सन्नद्धः || ६५ || आमुक्तादयस्त्रिषु । यथा आमुक्ता शाटी | आमुक्तः कंचुकः | आमुक्तं वस्त्रम् । एवं सन्नद्धा सज्येत्यादि । वर्मभृतां कवचिनां गणे कावचिकमित्येकम् | पदातिः “ पदातः पादातिः पादातः । पदातिपत्तिपादातपादाविकपदाजयमित्यमरमाला ।" पत्तिः पदगः पादातिकः " पादातिगः । स्वार्थे कन् । पादाविक इत्यपि पाठः पादाभ्यां अवति । अव रक्षणादौ ।” पदाजिः ||६६ ॥ पद्द्रः पदिकः सप्त पदातेः । पादाभ्यां अतति गच्छति न तु वाहनेन स पदातिः पादस्य पदाज्यातीति पदादेशः । पत्ति संहतिः पदातिसमूहः पादातमित्येकम् । शस्त्राजीवः कांडपृष्टः “कांडस्पृष्ट इति राजमुकुटः । तत्र स्पृष्टं गृहीतं कांडं शस्त्रं येन । वाहिताग्न्यादिष्विति परनिपातः । ” आयुधीयः आयुधिकः चत्वारि आयुधजीविनः ॥ ६७ ॥ कृतहस्तः सुप्रयोगविशिखः कृतपुंखः त्रीणि शरनिक्षेपनिष्णातस्य । " कृतो ऽभ्यस्तो हस्तो यस्य कृतहस्तः । ” लक्ष्याद्वेधात् च्युतः सायको यस्य सो ऽपराद्धपृषत्कः स्यात् एकम् || ६८ || धन्वी धनुष्मान् धानुष्कः निषंगी अस्त्री धनुर्धरः षट् धनुर्धरस्य । धनुष्मंतौ । कांडवान् कांडीर: द्वे शरधारिणः । अयं केवलकांडवT
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy