SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १९४ सटीकामरकोशस्य क्षत्रियवर्गः चक्रं रथांगं तस्यांते नेमिः स्त्री स्यात्प्रधिः पुमान् ॥ पिंडिका नाभिरक्षाग्रकीलके तु द्वयोरणिः॥५६॥ स्थरप्तिर्वरूथो ना कूबरस्तु युगंधरः ॥ अनुकर्षों दार्वधःस्थं प्रासंगो ना युगायुगः ॥ ५७॥ सर्व स्याहाहनं यानं युग्यं पत्रं च धोरणम् ॥ परंपरावाहनं यत्तदैनीतकमस्त्रियाम् ॥ ५८॥ आँधोरणा हस्तिपका हस्त्यारोहा निषादिनः ।। नियंता प्राजिता यंता सूतः क्षत्ता च सारथिः॥ ५९॥ काष्ठाधारभूतस्य मंडलाकारस्य चक्रमध्यस्य । नभ्यते हिंस्यते ऽक्षो ऽनया नाभिः स्त्री। अक्षस्य नाभिक्षेपस्य काष्ठस्याग्रे चक्रधारणार्थ यत्कीलकमारोप्यते तत्र अणिरित्येकम् । स्त्रीपुंसयोः। “अणिराणिवदक्षाग्रकीलाश्रीसीमसु द्वयोरितिमेदिनी"॥५६॥ रथगुप्तिः वरूथः द्वे शस्त्रादिभ्यः परिरक्षणार्थ रथस्य लोहादिमयं यदावरणं क्रियते तस्य । ना पुमान् । “वियते रथो ऽनेन वरूथः" । कवरः युगंधरः वे यत्र रथ. स्याश्वा बध्यते तस्य काष्ठस्य " दांडी इति ख्यातस्य । युगकाष्ट बंधनस्थानस्यापि च । युगं वोदुर्बधनकाष्टं धारयतीति युगंधरः" । रथाधःस्थं काष्टं अनुकर्षः । "अनुकर्षेति नांतोऽप्ययम् । अनुकर्षानाऽक्षतलदार्विति बोपालितात् । एकं रथस्याधःस्थलभागदारुणः” युगेन अतति युगाद्रथाश्वादिः तस्य युगो युगायुगः प्रासंग इति स्यात् । ना पुमान् । काकाक्षिवत् युगादिति विशेषणम् । अयमेव युगशब्दः पुंसि।न तु युग्मादिवाचीति प्रदर्शनार्थं । अतो युगादिति पाटे शकटसंधियुगादन्यो युगः वृषादीनां स्कंधे आसज्जमानः स प्रासंग इत्यर्थः । एक “ जू जोकड इति ख्यातस्य । युगं द्वितीयं प्रासंग इति कात्यः ॥ ५७ ॥ सर्व हस्त्यश्वादिवाहनं यानादिशब्दवाच्यम् । यानं युग्यं पत्रं धोरणं चत्वारि यत्परंपरावाहनं नरादिवोदृपरंपरया वाह्यते शिबिकादि तद्वैनीतकं स्यात् । विनीतानां शिक्षितानामिदम् । “पुंसि वैनीतकः । विनीतकमित्यपि" ॥५८ ॥ आधोरणाः अधोरणाः इत्यपि हस्तिपकाः हस्त्यारोहाः निषादिनः चत्वारि हस्तिपकेषु माहात इति ख्यातेषु । द्वे द्वे भिन्नार्थे इत्येके । तदा आद्ये महामात्रस्य । परे गजारोहस्य । नियंता प्राजिता यंता सूतः क्षत्ता सारथिः ॥५९॥ सव्येष्टः दक्षिणस्थः एता अष्टौ संज्ञा For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy