SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वितीयं कांडम्. कर्णीरथः प्रवहणं डलनं च समं त्रयम् ॥ क्लीवे ऽनः शकटो ऽस्त्री स्यान्वंत्री कंबलिवाह्यकम् ॥५२॥ शिबिका याप्ययानं साहोला प्रेखादिका स्त्रियाम् ॥ उभौ तु द्वैपवैयाघ्रौ दीपिचर्मावृते रथे ॥ ५३॥ पांडकंबलसंवीतः स्पंदनः पांडुकंबली ॥ रथे कांबलवास्त्राद्याः कंबलादिभिरावृते ॥ ५४॥ त्रिषु द्वैपादयो रथ्या स्थाटिया रथवजे ॥ धूः स्त्री क्लीवे यानमुखं स्याद्रथांगमपस्करः॥ ५५ ॥ -स्योपरिवस्त्रादिना पिहितस्य रथविशेषस्य “बुरख्याची गाडी इति प्रसिद्धस्य" । यल्लक्ष्यम् । कीरथस्थां रघुनाथपत्नीम् । अनः शकट: द्वे "गाडा इति ख्यातस्य । शकटः पुंसि क्लीवे च । शक्नोति भारं वोढुं शकटः" । अनः सांतम् । अनः क्लीबं जले शोके मातृस्पंदनयोरपीति रभसकोशः । कंबलिभिवृषैर्वाह्यं वोढव्यं यच्छकटं सा गंत्री “गांत्रीति मुकुटः” एकं “गाडी इति ख्यातस्य"। स्त्रियाम् ॥ ५२ ॥ शिविका याप्ययानं याप्यरधमैर्वाह्यं यानं द्वे पुरुषवाह्यस्य यानविशेषस्य “पालखी इति ख्यातस्य" । दोला “ ङीषि दोली" प्रेखा द्वे दोलायाः हिंदोळा इति ख्यातायाः । “ डोली इति ख्याताया वा" । आदिशब्दात् शयनखट्यावाह्यादि दोला । द्वीपी व्याघ्रस्तञ्चर्मणा प्रावृते रथे द्वैपः वैयाघ्रः इति द्वयम् ॥ ५३॥ पांडुकंबलेन प्रावृतो रथः पांडुकंबलीत्येकम् । पांडुकंबलादिनिः । वास्त्रः दौकूल इत्यादौ सर्वत्र परिवृतो रथ इत्यनेन सामान्यो ऽण् प्रत्ययः । कंबलादिभिरादिशब्दाद्वस्त्रदुकूलादिभिरावृते रथे कांबल: वास्त्रः दौकूल: “ चार्मः क्षौमः” इत्यादयः । एकैकम् ॥ ५४॥ द्वैपवैयाघ्रादयस्त्रिषु । वाच्यलिंगत्वात् । यद्दपी रथ्या । द्वैपो रथः । रथ्या रथकट्या द्वयं रथसमूहे । धू: यानमुखं द्वे रथादेरग्रभागस्य “धूर इति ख्यातस्य" । धूः स्त्री धूरौ । रथांग अपस्करः द्वे रथावयवमात्रस्य ॥ ५५ ॥ चक्रं रथांग द्वे चक्रस्य “ चाक इति ख्यातस्य" । नेमिः " नेमीत्यपि" प्रधिः द्वे तस्य चक्रस्यांते भूस्पर्शिभागे चाकाची धांव इति लौकिकप्रसिद्धस्य । पिंडिका “पिंडीत्यपि" नाभिः “नाभीत्यपि" द्वे चक्र २५ For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy