SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रथमं कांडम्. “उल्का स्यानिर्गतज्वाला भूतिभसितभस्मनि ॥ क्षारो रक्षा च दावस्तु दवो वनहुताशनः ॥ १॥" धर्मराजः पितृपतिः समवर्ती परेतराट् ॥ कृतांतो यमुनाभ्राता शमनो यमराडयमः॥ ६१॥ कालो दंडधरः श्राद्धदेवो वैवस्वतों ऽतकः॥ राक्षसः कौणपः व्याक्रव्यादो ऽस्रप आशरः ॥६२ ॥ रात्रिचरो रात्रिचरः कर्बुरो निकषात्मजः॥ यातुधानः पुण्यजनो नैक्रतो यातुरक्षसी ॥६३॥ प्रचेता वरुणः पाशी यादसांपतिरप्पतिः॥ श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः॥ ६४ ॥ टषदश्वो गंधवहो गंधवाहानिलाशुगाः॥ समीरमारुतमरुज्जगत्प्राणसमीरणाः॥६५॥ नभस्वदातैपवनपवमानप्रभंजनाः॥ प्रकंपनो महावातो झंझावातः सवृष्टिकः॥६६॥ यमुनाभ्राता शमनः यमराट् यमः ॥ ६१ ॥ काल: दंडधरः श्राद्धदेवः । श्राद्धस्य देवः पितृपतित्वात् । वैवस्वतः अंतकः इति चतुर्दश नामानि यमस्य । राक्षसः कौणपः "कोणपः" क्रव्यात् । कव्यं मांसं अत्ति इति क्रव्यात् ।क्रव्यादः अस्रपः। असं रक्तं पिबति “अश्रपः" आशरः आ शृणाति हिनस्तीत्याशरः “आशिरः" ॥६२॥ रात्रिंचरः । रात्रिचरः । कर्बुरः “कर्बरः” निकषात्मजः यातुधानः "जातुधानः" पुण्यजनः नैर्ऋतः यातु रक्षः पंचदश राक्षसस्य । तत्र यातुरक्षसी नपुंसके ॥६॥ प्रचेताः वरुणः “वरणः" पाशी यादसांपतिः। षष्ठया अलुक् । अप्पतिः पंचकं वरुणस्य । श्वसनः स्पर्शनः वायुः मातरिश्वा। मातरि अंतरिक्षे श्वयति संचरति श्वन्नुक्षन्निति निपातनात् सप्तम्या अलुक् । सदागतिः॥६४॥ पृषदश्वः । पृषन्मृगभेदोऽश्वो वाहनमस्य । गंधवहः गंधवाहः अनिलः आशुगः समीरः मारुतः मरुत् जगत्प्राणः "जगत् प्राण इति पदद्वयमपि" समीरणः ॥ ६५ ॥ नभस्वान् वातः “वातिः" पवनः पवमानः प्रभंजनः विंशतिर्नामानि वायोः। प्रकंपनः महावातः द्वयं महावायोः। For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy