SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १९१ हितीयं कांडम्. बनायुजाः पारसीका कांबोजा बाल्हिका हयाः॥ ययुरश्वो ऽश्वमेधीयो वनस्तु जवाधिकः ॥ ४५ ॥ पृष्ठयः स्थौरी सितः कर्को रथ्यो वोढा रथस्य यः॥ बालः किशोरो वाम्यश्वा वडवा वाडवं गणे॥ ४६॥ त्रिष्वाश्वीनं यदश्वेन दिने केन गम्यते॥ कश्यं तु मध्यमश्वानां हेषा न्हेषा च निस्वनः ॥ १७॥ निगालस्तु गलोदेशो वृंदे 'वश्वीयमाश्ववत् ॥ भनं वहति ते विनीताः स्युः एकम् ॥ ४४ ॥ वनायुदेशे जाताः वनायुजाः । एवं पारसीकाः । विदेशजाताः पारसीकादयो हयभेदाः स्युः एकैकम् । “वनायुजः पारसीक उक्त इति रत्नकोशात् । श्वेताश्वं कर्काख्यं वनायुजमपि पारसीकमिति नाममालायाश्च वनायुजपारसीको पर्यायशब्दावपि । बाल्हीकं बाल्हिकं,धीरहिंगुनो श्वदेशयोरिति त्रिकांडशेषादीर्घमध्यो ऽपि बाल्हीक इति।" यो ऽश्वमेधीयः अश्वमेधाय हितो. ऽश्वः स ययुरित्येकम् । यो जवेन वेगेनाधिकः स जवनः एकम् ॥ ४५ ॥ पृष्टयः प्रशस्तमतिशयितं पृष्टमस्य । गुण्यवत् । स्थौरी स्थूलस्येदं स्थौरम् । रलयोः सावर्ण्यम् । स्थौरं बलमस्यास्ति । स्थोरीत्यपि द्वे जलादिभारवाहिनो ऽश्वस्य । सितः शुक्लो. ऽश्वः कर्क इत्येकम् । यो रथस्य वोढा स रथ्य इत्येकम् । अस्य बालः किशोरः एकं " शिंगरूं इति ख्यातस्य ।" उपचारादन्यत्रापि प्रयोगः । वामी अश्वा वडवा । घडवा द्विअयोषिति । अश्वायां कुंभदास्यां च नारीजात्यंतरेऽपि चेति । त्रीण्यश्वायाः " घोडी इति ख्यातायाः ।" गणे वडवानां समूहे वाडवं एकम् ॥ ४६॥ अश्वेन एकेन दिनेन गम्यते यद्वर्त्म तदाश्वीनं त्रिषु । अश्वस्यैकाहगम इति खञ्प्रत्ययः । एकम् । अश्वानां मध्य कश्यं एकम् । कशामर्हति कश्यम् । अश्वस्य निस्वनः शब्दः हेषा न्हेषा च स्यात् द्वे ॥४७॥ गलोद्देश: गलजत्रुसंधिः निगालः स्यात् एकम् । “ घंटाबंधसमीपस्थो निगालः कीर्तितो बुधैः । तस्मिन्नेव मणिर्नाम रोमजः शुभकृम्मत इत्यश्वशास्त्रम् ।” अश्वीयं आश्वं द्वे अश्वानां वृंदे । वता निर्देशो द्वयोस्तुल्यत्वद्योतनाय । अमूः आस्कंदिताद्याः अश्वानां पंच गतयः धाराख्याः एकम् । यंत्र वेगातॊ ऽश्वो न शृणोति न पश्यति तादृशी गतिरास्कंदितम् । “भरपल्ला, भरधाव चाल इति प्रसिद्धम् । केवलगत्यर्थे गृहीते चवडचाल इति प्रसिद्ध आस्कं: For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy