SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir क्षत्रियवर्गः १९. सटीकामरकोशस्य अंदुको निगडोऽस्त्री स्यादंकुशोऽस्त्री मणिः स्त्रियाम् ॥११॥ दूंष्या कक्ष्या वरत्रा स्यात्कल्पना सज्जना समे ॥ प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथो योः॥४२॥ वीतं त्वसारं हस्त्यश्वं वारी तु गजबंधनी॥ घोटके वीतितुरगतुरंगाश्चतुरंगमाः॥४३॥ वाजिवाहार्वगंधर्वहयसैंधवसप्तयः॥ आजानेयाः कुलीनाः स्युर्विनीताः साधुवाहिनः ॥४४॥ त्रीणि शृंखलस्य । शृंखला पुंस्कटीवस्त्रबंधे च निगडे त्रिष्विति मेदिनी । “अंदूरित्यप्यन्यत्र । अंदू: स्त्रियां स्यान्निगडे प्रभेदे भूषणस्य चेति मेदिनी ।" अंकुशः सृणिः " तालव्यादिरपि । शृणिरंकुशवाची च काशश्च तृणवाचक इति शभेदः । द्वे अंकुशस्य । सृणिः स्त्रियाम् । आरक्षमनमवमत्य सृणिं शिताप्रमिति तु माघस्य प्रमादः ॥ ४१॥ दूष्या " चूष्येति मुकुट:" कक्ष्या वरत्रा त्रयं मध्यबंधनोपयोगिन्याश्चर्मरज्ज्वाः कक्षायां मध्यदेशे भवा कक्ष्या । कल्पना सज्जना द्वे नायकारोहणार्थ गजसज्जीकरणे । प्रवेणी आस्तरणं वर्णः परिस्तोमः कुथः पंच गजपृष्ठवर्तिन आस्तरणस्य । हत्तीची झूल इति लौकिकभायां प्रसिद्धम् । स्त्रियां तु कुथा । “स्त्री प्रवेणी कुथं त्रिष्विति बोपालितः।" प्रवेणी स्त्रियाम् । “प्रवेणी स्त्री कुथावेण्योरिति मेदिनी ॥ ४२ ॥ असारं युद्धाद्यक्षम हस्त्यश्वं हस्ती चाश्वश्च तद्वीतमुच्यते । सेनांगत्वात्समाहारः । गजबंधनी गजालानभूः वारी स्यात् । वार्यते ऽनया वारी एकं गजबंधनस्थानस्य गजशाला इति ख्यातस्य । घोटकः “घोट इत्यपि । घोटसैंधवगंधर्वा हयवाजितुरंगमा इति रभसः।" वीतिः “पीतिरित्यपि । पीति श्वे स्त्रियां पान इति मेदिनी । पीतिः पाने तुरंगे चेति विश्वप्रकाशः । तुरगः तुरंगः अश्वः तुरंगमः ॥४३॥ वाजी वाहः अर्वा गंधर्वः हयः सैंधवः सप्तिः त्रयोदश घोटकस्य । वीतिरिदंतः । अर्वा नकारांतः । अवतौ । वाजिनी । ये कुलीनाः प्रशस्तजातिभवा अश्वास्ते आजानेयाः एकम् । “आजेन क्षेपेणानेयाः प्रापणीया आजानेयाः । अश्वशास्त्रं तु । शक्तिभिभिन्नहृदयाः स्खलंतश्च पदे पदे । आजानंति यतः संज्ञामाजानेयास्ततः स्मृता इति"। ये साधुवाहिनः शो For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy