SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १८८ www.kobatirth.org सटीकामरकोशस्य हैमं छत्रं खातपत्रं राज्ञस्तु नृपलक्ष्म तत् ॥ भद्रकुंभः पूर्णकुंभो शृंगारः कनकालुका ॥ ३२ ॥ निवेशः शिविरं पंढे सज्जनं तूपरक्षणम् ॥ हस्त्यश्वरथपादातं सेनांगं स्याच्चतुष्टयम् || ३३ || दंती दंतावलो हस्ती द्विरदो कप द्विपः ॥ मतंगजो गजो नागः कुंजरो वारण: करी ॥ ३४॥ इभः स्तंवेरमः पद्मी यूथनाथस्तु यूथपः । मदोत्कटो मदकलः कलभः करिशावकः ॥ ३५ ॥ प्रभिन्नो गर्जितो मत्तः समा उद्धांत निर्मदौ || हास्तिकं गजता वृंदे करिणी धेनुका वशा ॥ ३६ ॥ Acharya Shri Kailashsagarsuri Gyanmandir ܕܙ "" 66 " आतपत्रं द्वे “ छत्रस्य " । राज्ञश्चेच्छत्रं तर्हि नृपलक्ष्म स्यात् एकम् । भद्रकुंभ: पूर्णकुंभ: द्वे पूर्णघटस्य । भृंगार : विभर्ति जलमिति । कनकालुका द्वे स्वर्णरचितपात्रविशेषस्य " झारी इति ख्यातस्य ॥ ३२ ॥ निवेश: शिबिरं द्वे सैन्यवासस्थानस्य “ सेनेचा तळ इति ख्यातस्य । गोट इति ख्यातस्येति केचित् । " शवंति गच्छंति सैनिका अस्मिन् शिबिरम् । सज्जनं उपरक्षणं द्वे सैन्यरक्षणाय नियुक्त प्रहरिकादिविन्यासस्य " पाहरा, गस्त इति ख्यातस्य । हस्त्यादिचतुष्टयं सेनांगं स्यात् एकम् । अत्र पादातं पदातिसमूहः । नाविका विकादीनां पदातावंतर्भावः । नौकानां रथेष्वंतर्भावः । महिषादीनां गजेष्वंतर्भाव इति मुकुटः ॥ ३३ ॥ दंती दंतावलः हस्ती द्विरदः अनेकपः द्विपः मतंगजः गजः नागः । नागो मतंगजे सर्वे पुन्नागेनागकेसरे इति कोशांतरे । कुंजरः वारण: करी ॥ ३४ ॥ इभः स्तंबेरमः पद्मी पंचदश हस्तिनः । " अतिशयितः कुंजो हनुरस्य कुंजरः । " यूथनाथः यूथपः द्वे यूथमुख्यस्य गजस्य । मदोत्कटः मदकलः द्वे मदोन्मत्तस्य । कलभः करभ इत्यपि " करिशावक : द्वे करिपोतस्य " छावा इति ख्यातस्य ॥ ३५ ॥ प्रभिन्नः गर्जितः मत्त: त्रीणि क्षरन्मदस्य । उद्धांत: निर्मदः द्वे गतमदस्य । उद्वमति स्म मदं उद्वांतः । हास्तिकं गजता द्वे हस्तिनां वृंदे | करिणी धेनुका वशा त्रीणि हस्तिन्याः । " वशा तालव्यांता | वशा नाय वंध्यगन्यां 46 " For Private And Personal [क्षत्रियवर्गः
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy