SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १८७ हितीयं कांडम्. घद्यादिदेयं शुल्को ऽस्त्री प्रानृतं तु प्रदेशनम् ॥ २७॥ उपायनमुपग्राह्यमुपहारस्तथोपदा ॥ यौतकादि तु यदेयं सुदग्यो हरणं च तत् ॥ २८ ॥ तत्कालस्तु तदात्वं स्यादुत्तरः काल आयतिः॥ सांदृष्टिकं फलं सद्य उदर्कः फलमुत्तरम् ॥ २९॥ अदृष्टं वन्हितोयादि दृष्टं स्वपरचक्रजम् ॥ महीभुजामहिभयं स्वपक्ष भवं भयम् ॥ ३० ॥ प्रक्रिया त्वधिकारः स्याचामरंतु प्रकीर्णकम् ॥ नृपासनं यत्तद्भद्रासनं सिंहासनं तु तत् ॥ ३१ ॥ दि । तत्र यद्देयं नेतव्यानेतव्यवस्तुसंबंधी राजग्राह्यो भागः स शुल्कः स्यात् । लम. ध्योऽयम् । एकं “जकात इति ख्यातस्य । क्लीवं शुल्कम्।"प्राभृतं प्रदेशनम् ॥२७॥ उपायनं उपग्राह्य उपहारः उपदा षट् नृपगुर्वादिदर्शनादौ समर्प्यमाणस्य वस्तुनः भेट नजराणा इति ख्यातस्य । तत्रोपदा स्त्रियाम् । युतकयोर्वधूवरयोरिदं यौतकम् । आदिना बंधुदेयादि । यद्देयं तत्सुदायः हरणं च स्यात् द्वे " कन्यादानकाले व्रतभिक्षादौ च दीयमानद्रव्यस्य । यौतुकमपि । यौतकं यौतुकं च तदिति वाचस्पतिः।"सुदायः पुंसि ॥ २८ ॥ तत्कालः तदात्वं द्वे "वर्तमानकालस्य ।" स चासौ कालश्च त. त्कालः । उत्तर आगामी काल आयतिः स्यात् एकम् । स्त्री । यत्सद्यः फलं तत्साहष्टिकं एकम् । उत्तरं भावि फलं उदर्कः स्यात् एकम् ॥ २९ ॥ वह्निरग्न्युत्पातः तोयमतिवृष्टयादिः तत्कृतं यद्यं तत् अदृष्टमित्येकम् । “आदिना हुताशनो जलं व्याधिभिक्षं मरणं तथा । अतिवृष्टिरनावृष्टिर्मूषकाः शलभादयो गृह्यते।" स्वपरराष्ट्रजन्यं चोरादि यद्भयं तत् दृष्टं एकम् । राज्ञां स्वपक्षप्रभवं स्वसहायजन्यं भयं अहिभयं स्यात् एकम् ॥ ३० ॥ प्रक्रिया अधिकारः द्वे व्यवस्थास्थापनस्य । चामरं “ चमरमपि चामरेत्यपि । चमरं चामरे स्त्री तु मंजरीमृगभेदयोरिति मेदिनी । चामराचमरे वालव्यजने रोमगुच्छक इति रभसः ।" प्रकीर्णकं द्वे " चवरी इति ख्यातस्य ।" नृपासनं भद्रासनं द्वे मण्यादिकृतराजासनस्य । तन्नृपासनं स्वर्णनिर्मितं चेत्सिंहासनं स्यात् सिंहाकारमासनमित्यर्थः । एकम् ॥ ३१ ॥ छत्रं For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy