SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir - १८४ सटीकामरकोशस्य [क्षत्रियवर्गः स्यात्संदेशहरो दूतो दूत्यं तदाकर्मणी ॥ १६ ॥ अध्वनीनो ऽध्वगो ऽध्वन्यः पांथः पथिक इत्यपि ।। स्वाम्यमात्यसुहकोशराष्ट्रदुर्गबलानि च ॥ १७॥ राज्यांगानि प्रकृतयः पौराणां श्रेणयोऽपि च ॥ संधिर्ना विग्रहो यानमासनं वैधमाश्रयः ॥ १८॥ षडणाः शक्तयस्तिस्रः प्रभावोत्साहमंत्रजाः॥ दूत्यमित्येकम् । “दौत्यमपि । तद्भागकर्मणी इति त्वपपाठः ।” दूतस्य भागकर्मणी इति यच्छांदसत्वात् ॥ १६ ॥ अध्वनीनः अध्वगः अध्वन्यः पाथः पथिकः पंच पांथस्य । “ स्त्रियां तु पांथा पथिकी । पथष्कन् षित्वात् ङीष् ।" स्वामी राजा । अमात्यो मंत्री । सुहृन्मित्रम् । कोशो धनागारम् । राष्ट्रं जनपदवर्तिभूमिः । दुर्ग दुर्गमस्थानम् “ पर्वतादि ।' बलं सेना ॥ १७ ॥ एतानि सप्त राज्यांगानि स्युः । राज्ञः कर्म राज्यं तस्यांगानि आरंभकाणि । स्वाम्यमात्यश्च राष्ट्रं च दुर्ग कोशो बलं सुहृत् । परस्परोपकारीदं सप्तांगं राज्यमुच्यत इति कामंदकीये । एतान्येक प्रकृतिशब्दवाच्यानि स्युः द्वे । प्रकृष्टं कुर्वति राज्यं प्रकृतयः । पौराणां श्रेणयो ऽपि प्रकृतयः स्युः । “पौरश्रेणिभिः सहाष्टांगमपि राज्यमित्यर्थः।" यत्कात्यः । अमात्यश्च तथा पौराः सद्भिः प्रकृतयः स्मृता इति । एकम् । शिल्पोपजीविनां पंक्तिरत्र श्रेणिः । मुख्यः सजातीयसमूहः श्रेणिरित्यन्ये । संधिः संधानं स्वर्णादिना शत्रूणां प्रीत्युत्पादनमिति । संधिशब्दः पुमान् । परमंडले दाहलुंठनादिग्रहणं विग्रहः । शत्रु प्रति विजिगीषोर्गमनं यानम् । शक्तिप्रतिबंधे सति कालं प्रतीयादिति दुर्गादिकं निर्माय तत्रावस्थानमासनम् । बलिना सह संधिः अबलेन सह विग्रहः इति प्रकारद्वयं द्वैधम् । अरिणा पीड्यमानस्य बलवद्भूपालाद्याश्रयणं आश्रयः । एतेषां भेदास्तु कामंदकीयादौ द्रष्टव्याः ॥ १८ ॥ एते संध्यादयः षट् गुणाः स्युः एकम् । प्रभावोत्साहमंत्रजास्तिस्रः शक्तयः स्युः एकम् । तत्र कोशदंड तेजः प्रभावशक्तिः । विक्रमादिनोन्नतिरुत्साहशक्तिः । संधिविग्रहादीनां मंत्रेण यथावस्थापनं मंत्रशक्तिः । पंचांगमंत्रो मंत्रशक्तिरित्यन्ये । क्षयः स्थानं वृद्धिरिति त्रयं नीतिवेदिनां त्रिवर्गः स्यात् । नीतिशास्त्रोक्तस्त्रिवर्ग इत्यर्थः एकम् । अष्टवर्गस्याप For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy