SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ८] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वितीयं कांडम्. वयस्यः स्निग्धः सवया अथ मित्रं सखा सुहृत् ॥ सख्यं साप्तपदीनं स्यादनुरोधो ऽनुवर्तनम् || १२ || यथार्हवर्णः प्रणिधिरपसर्पश्वरः स्पशः ॥ चारश्र गूढपुरुषश्राप्तप्रत्ययितौ समौ ॥ १३ ॥ सांवत्सरो ज्योतिषिको दैवज्ञगणकावपि ॥ स्युमौहूर्तिक मौहूर्तज्ञानिकातिका अपि ॥ १४ ॥ तांत्रिक ज्ञातसिद्धांतः सत्री गृहपतिः समौ || लिपिक क्षरणो ऽक्षरचंचु लेखके ॥ १५ ॥ लिखिताक्षरसंस्थाने लिपिर्लिबिरुभे स्त्रियौ ॥ For Private And Personal १८३ सवयाः सांतः त्रयं तुल्यवयसः प्रियस्य । मित्रं सखा सुहृत् । अत्याग सहनो बंधुः सदैवानुगतः सुहृत् । एकक्रियं भवेन्मित्रं सप्रमाणः सखा मत इति ॥ त्रीणि मित्रस्य | सखेदंत: । सखायौ । सुहृदौ । सख्यं साप्तपदीनम् । सप्तभिः पदैरवाप्य - 1 ते यत् द्वे मैत्रयाः । अनुरोध : अनुवर्तनं द्वे आनुकूल्यस्य || १२ || यथार्हवर्ण: प्रणिधिः अपसर्पः चरः स्पशः चारः गूढपुरुषः सप्त चारपुरुषस्य गुप्त बातमीदार, हे इति ख्यातस्य । यथावर्ण आकारो यस्य यथावर्णः । स्पशते बाधते परान्स्पशः । आप्तः प्रत्ययितः द्वे विसंवादरहितस्य । प्रत्ययो विश्वासः संजातो ऽस्य प्रत्ययितः विश्वासुक इति लोकप्रसिद्धस्य ॥ १३ ॥ सांवत्सरः ज्योतिषिकः दैवज्ञः गणकः मौहूर्तिकः मौहूर्तः ज्ञानी कातिकः अष्टौ ज्योतिषिकस्य " जोशी इति ख्यातस्य ॥ १४ ॥ तांत्रिकः ज्ञातसिद्धांत: द्वे शास्त्रवेत्तुः । सिद्धांतो येन ज्ञातसिद्धांत: ।" सत्री गृहपतिः द्वे गृहपतिनः “ सदान्नादिदानकर्तुः ।" लिपिकरः “लिविकर: लिपिकार इत्यपि लिपिकर इति च लिबिंकर इति भानुदीक्षितटीकायाम् ।" अक्षरचणः अक्षरचंचुः लेखकः चत्वारि लेखकस्य । अक्षरैर्वित्तो ऽक्षरचणः । तेन वित्तचंचुपचणपौ ॥ १५ ॥ लिखितं अक्षरसंस्थानं लिपिः “ लिपी " लिबिः चत्वारि लिखिताक्षरस्य । लिखिताक्षरविन्यास इति पाठे लिखितानामक्षराणां यो विन्यासस्तत्रेत्यर्थः । संदेशहरः दूतः द्वे संदिश्यत इति संदेशो निरूपणं तद्धरति इति संदेशहरः । तस्य दूतस्य भावे कर्मणि च "" 66 ज्ञातः
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy