SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य स्वर्गवर्गः अमिर्वैश्वानरो वन्हि-तिहोत्रो धनंजयः॥ कृपीटयोनिचलनो जातवेदास्तनूनपात् ॥ ५६ ॥ बर्हिः शुष्मा कृष्णवर्मा शोचिष्केश उपर्बुधः॥ आश्रयाशो वृहद्भानुः कृशानुः पावको ऽनलः॥ ५७॥ रोहिताश्वो वायुसखः शिखावानाशुशुक्षणिः॥ हिरण्यरेता हुतभुग्दहनो हव्यवाहनः ॥ ५८॥ सप्ताचिर्दमुनाः शुक्रश्चित्रभानुर्विभावसुः॥ शुचिरप्पित्तमौर्वस्तु वाडवो वडवानलः ॥ ५९॥ वन्हेईयोर्चालकीलावचितिः शिखा स्त्रियाम् ॥ त्रिषु स्फुलिंगो ऽमिकणः संतापः संज्वरः समौ ॥६॥ वन्हिः वीतिहोत्रः। वीति भक्ष्यं पुरोडाशादि हूयतेऽस्मिन् । धनंजयः कृपीटयोनिः । कृपीटस्य जलस्य योनिः कृपीटमुदरे जले इति रत्नकोशात् कृपीटं योनिरस्येति वा। ज्वलनः जातवेदाः तनूनपात् ॥५६॥बर्हिः शुष्मा कृष्णवर्मा शोचिष्केशः उपर्बुधः आश्रयाशः “आशयाशः" बृहद्भानुः कृशानुः पावकः अनलः ॥५७ ॥ राहिताश्वः “लादिरपि" वायुसखः शिखावान् आशुशुक्षणिः । आशु शीघ्रं आशुं व्रीहिं वा शु क्षणोति क्षणु हिंसायाम् शु इति पूजार्थमव्ययम्।हिरण्यरेताः हुतभुक् दहनः हव्यवाहनः ॥ ५८॥ सप्ताचिः “कोली करोली मनोजवा सुलोहिता सुधूम्रवर्णा स्कुलिंगिनी विश्वासाख्याः सप्त वन्हेर्जिव्हाः”। दमुनाः “दमूना:” शुक्रः चित्रभानुः विभावसुः। विभा प्रभा वसुः धनं यस्य सः। शुचिः अप्पित्तं इति चतुस्त्रिंशदग्निनामानि । बर्हिः शुष्मेति संघातो विगृहीतं च नाम । “शुक्रो वैश्वानरो बहिः बर्हिःशुष्मा तनूनपादिति शब्दार्णवात्" । बहते वर्द्धत इति बहिः । “इदंतः सांतो ऽपि" शुष्यत्यनेन शुष्मा “नांतः अदंतो ऽपि" । और्वः “ऊर्वः बहुत्वे ऊर्वाः" । वाडवः वडवानलः त्रयं वाडवाग्नेः ॥ ५९ ॥ ज्वालः कीलः अचिं: “इदंतो ऽपि" हेतिः शिखा पंचकं वन्हेरर्चिषि । तत्र ज्वालकीलौ स्त्रीपुंसयोः । अचिः स्त्रीनपुंसकयोः । हेतिशिखे स्त्रियां । स्फुलिंगः अग्निकणः द्वे अग्नेः कणिकायां त्रिषु लिंगत्रये । संतापः संज्वरः द्वे अग्नेः संतापे ॥ ६० ॥ धर्मराजः पितृपतिः समवर्ती परेतराट् कृतांतः For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy