SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. १८१ मंत्री धीसचिवो ऽमायो ऽन्ये कर्मसचिवास्ततः॥४॥ महामात्राः प्रधानानि पुरोधास्तु पुरोहितः॥ द्रष्टरि व्यवहाराणां प्राड्डिवाकाक्षदर्शकौ ॥ ५॥ प्रतीहारो द्वारपालडाँस्थास्थितदर्शकाः॥ रक्षिवर्गस्त्वनीकस्थो ऽथाध्यक्षाधिकृतौ समौ ॥ ६॥ स्थायुको ऽधिकृतो ग्रामे गोपो ग्रामेषु भूरिषु ॥ भौरिकः कनकाध्यक्षो रूप्याध्यक्षस्तु नैष्किकः॥७॥ • “धीप्रधानः सचिवो धासचिवः । अमा सह समीपे वा भवः अमात्यः । अमांतिक सहायोरिति कोशांतरम् । अव्ययात्त्यप् ।" ततो धीसचिवादन्ये कर्मोपयुक्ताः सचिवाः कर्मसचिवाः स्युरित्येकम् ॥ ४॥ महामात्राः प्रधानानि द्वे मुख्यानां राजसहायानाम् । “ प्रधान इत्यपि"। महामात्रः प्रधानः स्यादिति पुंस्कांडे बोपालितात् । महती मात्रा येषां ते महामात्राः । मात्रा कर्णविभूषायां वित्ते माने परिच्छद इति मेदिनी । पुरोधाः पुरोहितः द्वे व्यवहाराणां ऋणादिविषये वादिप्रतिवादिनिर्मितविवादानां द्रष्टरि निर्णेतरि । प्राडिवाकः अक्षदर्शकः इति द्वे " न्यायाधीश इति ख्यातस्य । प्राट् च विवाकश्च प्राडिवाको प्रश्नविवेकावस्य स्तः प्राडिवाकः । यदुक्तम् । विवादानुगतं पृष्ट्वा पूर्ववाक्यं प्रयत्नतः। विचारयति येनासौ प्राडिवाकस्ततः स्मृत इति । अक्षाणां व्यवहाराणां दर्शकः । अक्षः कर्षे तुषे चक्रे शकटव्यवहारयोरिति विश्वः ॥५॥ प्रतीहारः “ प्रतिहारः” द्वारपालः द्वास्थः द्वास्थितः दर्शकः पंच द्वारपालस्य । “ द्वाःस्थः द्वा:स्थित इति सविसर्गोऽपि पाठः । द्वाःस्थितदर्शक इति समस्तमपि ।" प्रतीहारे ऽपि दर्शक इति रुद्रः । द्वारपो द्वास्थितादर्शी इति रभसः । रक्षिवर्गः अनीकस्थः द्वे राजरक्षकगगस्य । अध्यक्षः अधिकृतः द्वे अधिकारी इति ख्यातस्य । “ अधि अधिक उपरि वा क्रियते ऽस्मात् अधिकृतः" ॥ ६ ॥ एकस्मिन् प्रामे अधिकृतः स्थायुकः स्यात् “ शेखदार इति ख्यातस्य ।" भूरिषु बहुषु ग्रामेष्वधिकृतो गोप इत्येकम् । “गोपो गोपालके गोष्टाध्यक्षे पृथ्वीपतावपि । ग्रामस्याधिकृते पुंसि शारिवाख्योषधौ स्त्रियामिति मेदिनी ।" भौरिकः कनकाध्यक्षः द्वे स्वर्णा For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy