SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १८० www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य त्रिवर्गो धर्मकामार्थैश्रतुर्वर्गः समोक्षकैः ॥ सबलैस्तैश्चतुर्भद्रं जन्याः स्निग्धा वरस्य ये ॥ ५८ ॥ इति ब्रह्मवर्गः ॥ ॥५॥ [क्षत्रियवर्गः मूर्धाभिषितो राजन्यो बाहुजः क्षत्रियो विराट् ॥ राँजो राट् पार्थिवक्ष्माभृंनृपभूपमहीक्षितः ॥ १ ॥ राजा तु प्रणताशेषसामंतः स्यादधीश्वरः || चक्रवर्ती सार्वभौमो नृपो ऽन्यो मंडलेश्वरः ॥ २ ॥ येनेष्टं राजसूयेन मंडलस्येश्वरश्र यः ॥ शास्ति यश्चाज्ञया राज्ञः स सम्राडथ राजकम् ॥३॥ राजन्यकं च नृपतिक्षत्रियाणां गणे क्रमात् ॥ For Private And Personal "l केचित् पठति ॥ ५७ ॥ धर्मो वेदविहितो यागादिः । कामो यथाविधि स्त्रीसेवनम् । अर्थो धनम् । एभिस्त्रिभिः समुदितस्त्रिवर्गः एकम् । समोक्षकैः धर्मार्थकाममोक्षैरित्यर्थः । एतैः समुदितश्चतुर्वर्ग इत्येकम् । तैर्धर्मादिभिः सबलैश्चतुर्भद्रमित्येकम् । “चत्वारि भद्राणि श्रेष्टानि अत्र ।" वरस्य जामातुर्ये स्निग्धा वयस्या: जन्याः स्युरित्येकम् । जनीं वधूं वहति प्रापर्यंत ते ॥ ५८ ॥ इति ब्रह्मवर्गः ॥ ५ ॥ मूर्धाभिषिक्तः रा ज्यदानसमये मूर्धन्यभिषिच्यते इति प्रसिद्धमेतत् । राजन्यः बाहुजः क्षत्रियः । क्षतात् दुःखात् त्रायते । विराट् पंच क्षत्रियस्य । विराजौ । राजा राट् पार्थिवः क्ष्माभृत् 'क्ष्माभुक्” नृपः भूषः महीक्षित् सप्त राज्ञः । राजानौ । राजौ । क्ष्माभृतौ । महीक्षितौ । राज्ञि राडिति सप्तम्यंतपाठः कचित् दृश्यते ॥ १ ॥ प्रणता अशेषसामंता अखिलदेशांतरनृपा यस्य स राजा अधीश्वर इत्येकम् । चक्रवर्ती सार्वभौमः द्वे आसमुद्रक्षितीशस्य । तदन्यो नृपो मंडलेश्वर इत्येकम् ॥ २ ॥ राजसूयाख्यऋतुविशेषेण येनेष्टं द्वादशमंडलस्येश्वरश्व यः यश्च स्वाज्ञया सर्वभूपान् शास्ति ईदृशविशेषणत्रयेण विशिष्टो राजा सम्राट् स्यात् । " एकैकविशेषणविशिष्टोऽपि सम्राट् इति केचित् । एकम् " ॥ ३ ॥ नृपतीनां गणे राजकमित्येकम् | क्षत्रियाणां गणे राजन्यकमित्येकम् | मंत्री धीसचिवः अमात्यः त्रयं बुद्धिसहायस्य । I
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy