SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १७६ सटीकामरकोशस्य [ब्रह्मवर्गः ध्यानयोगासने ब्रह्मासनं कल्पे विधिक्रमौ ॥ मुख्यः स्यात्प्रथमः कल्पो ऽनुकल्पस्तु ततो ऽधमः॥४०॥ संस्कारपूर्व ग्रहणं स्यादुपाकरणं श्रुतेः॥ समे तु पादग्रहणमभिवादनमित्युभे ॥ ४१ ॥ भिक्षुः परित्राट् कर्मदी पाराशर्यपि मस्करी ॥ तपस्वी तापसः पारिकांक्षी वाचंयमो मुनिः॥४२॥ तपक्लेशसहो दांतो वर्णिनो ब्रह्मचारिणः॥ ऋषयः सत्यवचसः स्नातकस्त्वाछुतो व्रती ॥४३॥ ये निर्जितेंद्रियग्रामा यतिनो यतयश्च ते ॥ गयोरासने ब्रह्मासनमित्येकम् । एकतानेन मनसा स्मरणं ध्यानमुच्यते । चित्तवृत्तिनिरोधस्तु सद्भिर्योग इति स्मृतः । कल्पः विधिः क्रमः त्रयं नियोगशास्त्रस्य । यः प्रथमः कल्पः आद्यो विधिः स मुख्यः स्यात् । यथा व्रीहिभिर्यजेत । ततो मुख्यादधमो गौणः अनुकल्पः स्यात् । यथा व्रीह्यभावे नीवारैर्यजेत॥४०॥संस्का. रपूर्वकं श्रुतेर्ग्रहणं उपाकरणं स्यात् एकम् । उपाकर्मणि “संस्कार उपनयनम् ।" प्रादग्रहणं अभिवादनं हे नामगोत्रोक्तिपूर्वकस्य नमस्कारविशेषस्य ॥४१॥ भिक्षुः परिव्राट् कर्मदी पाराशरी मस्करी पंच संन्यासिनः । परिव्राजौ, “कर्मदेन प्रोक्तं भिक्षुसूत्रमधीते कर्मदी । पाराशर्येण प्रोक्तं भिक्षुसूत्रमधीते पाराशरी । मस्करो ज्ञानं वेणुर्वास्यास्ति मस्करी । मस्करमस्करिणौ वेणुपरिव्राजकयोरिति निपातनात्सुडागमः।" तपस्वी तापसः पारिकांक्षी त्रयं तपोयुक्तस्य । “ पारि ब्रह्मज्ञानं कांक्षति पारिकांक्षी ।" वाचंयमः मुनिः द्वे वाग्यतस्य ॥४२॥ तपसः क्लेशेऽनुद्विग्नो दांतः स्यात् एकम् । वर्णी ब्रह्मचारी द्वे ब्रह्मचारिणः । ब्रह्म वेदः तदध्ययनाथं व्रतमपि ब्रह्म तच्चरतीति णिनिः । ऋषिः सत्यवचाः द्वे ऋषिसामान्यस्य । तद्धेदास्तु महर्षिदेवर्षिब्रह्मर्षिप्रभृतयः । यो व्रती वेदव्रतवान् आलुतः स्नातः कृतसमावर्तन इति यावत् सः स्नातक इत्युच्यते । “आप्लवव्रतीति पाठो वा ।” यदाहुः । गुरवे तु वरं दत्वा नायाद्वा तदनुज्ञया । वेदव्रतानि वा पारं नीत्वा ह्युभयमेव चेति ॥ ४३ ॥ निर्जितः स्ववशस्थ इंद्रियसमूहो यैस्ते यतिनः यतयः द्वे । यो For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy