SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [अमवर्गः क्रमादातिथ्यातिथेये अतिथ्यर्थे ऽत्र साधुनि ॥ ३३ ॥ स्युरावेशिक आगंतुरतिथिर्ना गृहागते॥ प्रापूर्णिकः प्राघुणकथाभ्युत्थानं तु गौरखम् ॥ ३४ ॥ पूजा नमस्या ऽपचितिः सपर्याचाहणाः समाः॥ वरिवस्या तु शुश्रूषा परिचर्याप्युपासना ॥ ३५ ॥ व्रज्या ऽटा ऽट्या पर्यटनं चर्या वीर्यापथे स्थितिः॥ उपस्पर्शस्त्वाचमनमथ मौनमभाषणम् ॥ ३६ ॥ “प्राचेतसश्चादिकविः स्यान्मत्रावरुणिश्च सः ॥ वाच्यलिंगा इत्यर्थः । अर्घः पूजोपचारस्तदर्थे वारिणि जले अर्घ्यमित्येकम् । पादाय पादार्थे वारिणि पाद्यं एकम् । अतिथ्यर्थे आतिथ्यमित्येकम् । अत्रातिथौ यत्साधु तत्र आतिथेयमित्येकम् ॥ ३३ ॥ आवेशिकः आगंतुः अतिथिः गृहागतः चत्वारि गृहागतस्य । ना पुमान् । “त्रिकांडशेषे तु प्राघुणस्त्वतिथिद्वयोरित्युक्तम् । स्त्रियां तु अतिथी ।” दुराञ्चोपगतं श्रांतं वैश्वदेव उपस्थितम् । अतिथिं तं विजानीयानातिथिः पूर्वमागत इति व्यासः । प्राघूर्णिकः प्राघुणकः द्वे अभ्यागतस्य । तिथिपोत्सवाः सर्वे त्यक्ता येन महात्मना । सो ऽतिथिः सर्वभूतानां शेषानभ्यागतान्विदुरिति यमः । अभ्युत्थानं गौरवं द्वे उत्थानपूर्वकसत्कारस्य ॥ ३४ ॥ पूजा नमस्या अपचितिः सपर्या अर्चा अर्हणा षट् पूजायाः । वरिवस्या शुश्रूषा परिचर्या उपासना "उपासनमित्यपि । उपासनं शराभ्यासे ऽप्युपास्तावासने ऽपि चेति विश्वमेदिन्यौ ।" चतुष्कमुपासनस्य । तत्र शुश्रूषाशब्दो गुरुसेवायां लाक्षणिकः। “परिचर्या तुपचर्येति भागुरिः" ॥ ३५॥ व्रज्या अटा अट्या पर्यटनं चत्वारि पर्यटनस्य । अटा पर्यटनं भ्रम इति रत्नकोशः । अट्येत्यत्र मूर्धन्यतालव्यसंयोगः। वृथाट्या खलु सा तस्येति प्रयोगः । ईर्यापथे ध्यानमौनादिके योगमार्गे स्थितिः चर्या स्यात् एकम् । चर्या त्वीयर्या विदुर्बुधा इति ग्रंथांतरे । उपस्पर्शः आचमनं द्वे । ." उपस्पर्शः स्पर्शमात्रे स्नानाचमनयोरपीति मेदिनी" मौनं अभाषणं द्वे ॥ ३६॥ प्राचेतस इत्यादिसार्थश्लोकः कचिदस्ति तत्र प्राचेतसादिचतुष्कं वाल्मीकस्य । मैत्रावरुण... इत्यपि । वाल्मीकिः " वल्मिकिरिति द्विरूपकोशे । वल्मीकः । अपि For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy