SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 。་ www.kobatirth.org द्वितीयं कांडम्. त्यागो विहापितं दानमुत्सर्जन विसर्जने ॥ विश्राणनं वितरणं स्पर्शनं प्रतिपादनम् ॥ २९ ॥ प्रादेशनं निर्वपणमपवर्जनमंहतिः ॥ मृतार्थं तदहे दानं त्रिषु स्यादौर्ध्वदेहिकम् ॥ ३० ॥ पितृदानं निवापः स्याच्छ्राद्धं तत्कर्म शास्त्रतः ॥ अन्वाहार्यं मासिकेंऽशो ऽष्टमो ऽह्नः कुतॅपो ऽस्त्रियाम् ।।३.१॥ पर्येषणा परीष्टिश्वाऽन्वेषणा च गवेषणा || सनिस्त्वध्येषणा याच्या ऽभिशंस्तिर्याचना ऽर्थना ॥ ३२॥ षट् तु त्रिष्वर्घ्यमर्घार्थे पाद्यं पादाय वारिणि ॥ " Acharya Shri Kailashsagarsuri Gyanmandir " उत्सर्जनं विसर्जनं विश्राणनं वितरणं स्पर्शनं प्रतिपादनम् ॥ २९ ॥ प्रादेशनं निवैपणं अपवर्जनं अंहतिः त्रयोदश दानस्य । तत्र अंहतिः स्त्री । मृतार्थं मृताय तदहे दानं मरणदिनमारभ्य दशाहपर्यंतं पिंडादिदानं और्ध्वदेहिकं स्यात् । "और्ध्वदैहिकमित्युभयपदवृद्धिरपि ।” तत्रिषु । स्त्रियां तु और्ध्वदेहिकी क्रिया । “तदहर्दानमित्यपि पाठ: ॥ ३० ॥ पितृदानं निवापः द्वे पितृनुद्दिश्य यद्दानं क्रियते तत्र । शास्त्रतस्तत्कर्मपितृसंबंधिकर्म श्राद्धं स्यात् । श्रद्धाऽस्ति यत्र तच्छ्राद्धम् । प्रज्ञाश्रद्धेति णः । मासिके ऽमावास्याश्राद्धे ऽन्वाहार्यमित्येकम् । पिंडान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकमिति मनुः । अह्नो ऽष्टमोऽशः कृतपः स्यात् । अंशशब्दो ऽत्र मुहूर्तपरः । मुहूर्तात्सप्तमादूर्ध्वं मुहूर्तान्नवमादधः । स कालः कुतपो ज्ञेय इत्युक्तेः । दिवस - स्याष्टमे भागे मंदीभवति भास्करे । स कालः कुतपो ज्ञेय इति शातातपः । 46 66 क्लीबे तु कुतपम् । शब्दरत्नावल्यां तु कुतुप इति व्युकारोऽपि ” ॥ ३१ ॥ पर्येषणा परीष्टिः द्वे श्राद्धे द्विजभक्तिशुश्रूषायाः । अन्वेषणा गवेषणा द्वे धर्मादिमार्गणस्य । चतुष्कमपि धर्मान्वेषणस्येत्यपि, मतम् । सनिः अध्येषणा द्वे यत् गर्वादेः कचिदर्थे प्रार्थनया नियोजनं तत्र । याच्या अभिशस्तिः “ अभिषस्तिः याचना अर्थना चत्वारि याचनायाः । याचनेत्यत्र चकारनकारसंयोगः ॥ ३२ ॥ षडिति अर्घ्यपाद्यातिथ्यातिथेयावेशिकोतव इति षट् शब्दा 66 For Private And Personal १७३
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy