SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १७२ सटीकामरकोशस्य . [ब्रह्मवर्गः ध्रुवोपभृज्जुहूर्ना तु सुवो भेदाः स्रुचः स्त्रियः ॥ उपाकृतः पशुरसौ यो ऽभिमंत्र्य क्रतौ हतः॥ २५ ॥ परंपराकं शमनं प्रोक्षणं च वधार्थकम् ॥ वाच्यलिंगाः प्रमीतोपसंपन्नप्रोक्षिता हते ॥ २६ ॥ सान्नाय्यं हविरमौ तु हुतं त्रिषु वषट्कृतम् ॥ दीक्षांतो ऽवभृथो यज्ञे तत्कर्हि तु यज्ञियम् ॥ २७॥ त्रिष्वथ क्रतुकर्मेष्टं पूर्त खातादि कर्म यत् ॥ अमृतं विघसो यज्ञशेषभोजनशेषयोः॥ २८॥ स्यात् एकम् ॥ २४॥ ध्रुवा उपभृत् जुहूः एते त्रयः सुवो भेदाः । स्त्रियः । सुवः एकं पुंसि । “अत्र यथा स्रुवशब्दस्य रूपभेदात्पुंस्त्वे सिद्धे नेति पुंस्त्व. विधिस्तथा पूर्वत्र स्त्रिय इति स्त्रीत्वविधिरपि बोध्यः । स्रुवा द्वयोर्होमपात्रे शल्लकीमूर्वयोः स्त्रियामिति मेदिनीकोशे स्त्रीलिंगो ऽपि दृश्यते ।" ऋतौ यः पशुरभिमंत्र्य हतः असौ उपाकृतः स्यात् एकम् । “ उपाक्रियते हिंस्यत इत्युपाकृतः।" ॥ २५ ॥ परंपराकं शमनं "शसनं ससनं चेत्यपि” प्रोक्षणं त्रयं वधार्थकं यज्ञियपशुहननवाचीत्यर्थः । प्रमीतः उपसंपन्नः प्रोक्षितः त्रीणि यागा) हते पशुमात्रे वाच्यलिंगानि ॥ २६ ॥ हविर्विशेषः सान्नाय्यं स्यात् एकम् । अग्नौ हुतं याज्यादि वषट्कृतं स्यात् तत्रिषु वाच्यलिंगं एकम् । “वषडिति मंत्रोपलक्षणम् । वषण्मंत्रण कृतं प्रक्षिप्तम् ।” यज्ञे दीक्षांतः दीक्षायाः समापकः इष्टिपूर्वकस्नानविशेषः अवभृथः एकम् । तत्कर्माहं यज्ञकर्मयोग्यं वस्तु “द्विजद्रव्यादि” यज्ञियं एक त्रिषु ॥ ॥ २७ ॥ यत्क्रतुकर्म तदिष्टं स्यात् । “ऋतुर्यज्ञः कर्म दानं । एकाग्निकर्महवनं त्रेतायां यच्च हूयते । अंतर्वेद्यां च यद्दानमिष्टं तदभिधीयत इति मनुः । " एकम् । खातं वापीकूपादि । आदिना देवालयादि यत्कर्म तत्पूर्त स्यात् । एकम् । “पुष्करिण्यः सभा वापी देवतायतनानि च । आरामश्च विशेषेण पूर्त कर्म विनिर्दिशेदिति स्मृतिः ।" यज्ञशेषे पुरोडाशादौ अमृतमित्येकम् । भोजनशेषे देवपित्रादिभुक्तशेषे विघस इत्येकम् । यन्मनुः । विधसाशी भवेन्नित्यं नित्यं चामृतभोजनः । विधसो भुक्तशेषं स्यादग्निशेषमथामृतमिति ॥ २८ ॥ त्यागः विहापितं दानं For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy