SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १७१ हितीयं कांडम्. यो गार्हपत्यादानीय दक्षिणामिः प्रणीयते ॥ तस्मिन्नानाय्यो ऽथामायी खाहा च हुतभुप्रिया ॥२१॥ ऋक् सामिधेनी धाय्या च या स्यादमिसमिंधने ॥ गायत्रीप्रमुखं छंदो हव्यपाके चरुः पुमान् ॥ २२॥ आमिक्षा सा शृतोष्णे या क्षीरे स्यादधियोगतः॥ धवित्रं व्यजनं तद्यद्रचितं मृगचर्मणा.॥ २३ ॥ टषदाज्यं सदध्याज्ये परमान्नं तु पायसम् ॥ हव्यकव्ये देवपित्र्ये अन्ने पात्रं सुवादिकम् ॥ २४ ॥ अग्नौ प्रयोगो ऽस्ति येषां ते । अग्निधारणार्थे स्थलविशेषे प्रयुक्ताः ॥ २०॥ गाहपत्यादानीयोद्धृत्य यो दक्षिणाग्निः प्रणीयते प्रवेश्यते तत्र आनाय्य इत्येकम् । अग्नायी स्वाहा हुतभुक्प्रिया त्रयमग्नेः प्रियायाम् । अस्य स्वाहाशब्दस्य नाव्ययत्वं द्रव्यवाचित्वात् । अतएव स्वाहां तु दक्षिणे पार्श्वे इति प्रयोगः संगच्छते ॥ २१॥ अग्निसमिंधने समित्प्रक्षेपेण वन्हिज्वलने या ऋक् प्रयुज्यते सा सामिधेनी धाय्या च स्यात् द्वे । गायत्र्युष्णिगित्यादि छंदः स्यात् एकम् । सांतं क्लीवम् । हव्यपाके ऽग्निमुखे हूयमाने ऽन्ने चरुरित्येकम् । “ हव्यस्य पाकः हव्यपाकः । अनवस्रावितांतरूष्मपाक ओदनश्चरुरिति याज्ञिकाः । चर्यते भक्ष्यते इति चरुः । मीमांसकैरपि त्रिवृच्चर्वधिकरणे ऽन्नपरत्वं चरुशब्दस्याभ्युपगतम् । विश्वप्रकाशे तु । चरुर्भाडे च हव्यान्न इत्यनेकार्थतोक्ता । अथ पुमान् चरुर्हव्यान्नभांडयोरिति मेदिनी च ।" ॥ २२ ॥ शृतं पक्कं च तदुष्णं च तस्मिन् क्षीरे दधियोगतो या विकृतिः सा आमिक्षा स्यात् एकम् । मृगचर्मणा रचितं यब्यजनं तद्धवित्रमित्येकम् । “धुवित्रमित्यपि" ॥ २३ ॥ दधियुक्ते घृते पृषदाज्यमित्येकम् । “पृषातकम् । पृषातकं सदध्याज्ये पृषदाज्यं तदुच्यत इति हेमचंद्रः ।" परमान्नं पायसं द्वे क्षीरान्नस्थ । दैवपित्र्ये देवपितृसंबंधिनि अन्ने क्रमेण हव्यकव्ये स्याताम् । इयंते प्रीण्यते देवा येन हव्यम् । कूयते पितृभ्यः कव्यम् । कु शब्दे ।" देवेभ्यो दीयमानमन्नं हव्यम्। पितृभ्यो दीयमानमन्नं कव्यमित्यर्थः । अग्निमुखेन देवेभ्योऽन्नं दीयते । विप्रमुखेन पितृभ्योऽन्नमिति । “ पैत्रमित्यपि । तस्येदमित्यण” एकैकम् । स्रुवचमसादिकं पात्रं For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy