SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. १६९ पारंपर्योपदेशे स्यादैतिह्यमितिहाव्ययम् ॥ १२ ॥ उपज्ञा ज्ञानमायं स्याज्ज्ञालारंभ उपक्रमः॥ यज्ञः सवो ऽध्वरो यागः सप्ततंतुर्मखः क्रतुः॥ १३ ॥ पाठो होमवातिथीनां सपर्या तर्पणं बलिः॥ एते पंचमहायज्ञा ब्रह्मयज्ञादिनामकाः ॥ १४ ॥ समज्या परिषद्रोष्ठी सभासमितिसंसदः॥ आस्थानी क्लीबमास्थानं स्त्रीनपुंसकयोः सदः ॥१५॥ प्राग्वंशः प्राक् हविर्गेहात्सदस्या विधिदर्शिनः॥ तीर्थे ये इति समानस्य सः एकम् । योऽग्निं चितवान् सोऽग्निचित् एकं कृताग्निचयनस्य । ऐतिह्यं इतिह, द्वयं पारं पर्येण लोकपरंपरया य उपदेशस्तस्मिन् । इतिहेत्यव्ययं इतिहेति निपातसमुदायस्तत्र भवमैतिह्यम् ॥ १२॥ यत्प्रथमं ज्ञानं सा उपज्ञा स्यात् । यथा ग्रंथस्य पाणिनेरुपज्ञा एकम् । ज्ञात्वा य आरंभः स उपक्रमः । यथा ग्रंथस्योपक्रमः ज्ञानपूर्वक आरंभ इत्यर्थः एकम् । यज्ञः सवः अध्वरः यागः सप्ततंतुः मखः क्रतुः सप्त यज्ञस्य ॥ १३ ॥ पाठादयः पंच ब्रह्मयज्ञादिनामका महायज्ञाः स्युः एकम् । तत्र पाठो विधिना वेदादेः पठनं स ब्रह्मयज्ञः । होमो वैश्वदेवहोमः स देवयज्ञः । अतिथीनां गृहागतानां सपर्या अन्नादिना तोषणं स मनुष्ययज्ञः । तर्पणं पितॄणामन्नोदकादिना तृप्तिसंपादनं स पितृयज्ञः । बलिः बलिहरणं स भूतयज्ञः । “पठनं पाठः । भावे घञ् । मनुः। अध्यायनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् । होमो देवो बलि तो नृयज्ञो ऽतिथिपजनमिति"॥१४॥ समज्या परिषत् गोष्टी सभा समितिः संसत् आस्थानी आस्थानं सदः नव सभायाः । परिषदौ । गोष्ठयौ । संसदौ । आस्थान्यौ । सदः सांतं क्लीबे । स्त्रीत्वे तु सदाः । " समजंति गच्छंत्यस्यां समज्या । गावो ऽनेका वाचस्तिष्टत्यस्यां गोष्ठी । सह समाना वा भांत्यस्यां सभा । सभालक्षणं मनुः । यस्मिन्देशे निषीदंति विप्रा वेदवि. दस्त्रयः । राज्ञश्चाधिकृतो विद्वान् ब्रह्मणस्तां सभां विदुरिति । संयंति गच्छंत्यस्यां समितिः । संसीदत्यस्यां संसत् । आतिष्टत्यस्यामास्थानी। सीदत्यस्यां सदः" ॥१५॥ हविगैहात्प्राक् पूर्वदेशे सदस्यादीनां यद्गृहं स प्राग्वंश इत्येकम् । यज्ञशालाया:. For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy