SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [ब्रह्मवर्गः इज्याशीलो यायको यज्वा तु विधिनेष्टवान् ॥ ८॥ स गीष्पतीष्ट्या स्थपतिः सोमपीथी तु सोमपाः॥ सर्ववेदाः स येनेष्टो यागः सर्वस्वदक्षिणः॥९॥ अनूचानः प्रवचने सांगे ऽधीती गुरोस्तु यः॥ लब्धानुज्ञः समावृत्तः सुत्वा लभिषवे कृते ॥१०॥ छात्रांतेवासिनौ शिष्ये शैक्षाः प्राथमकल्पिकाः॥ एकब्रह्मव्रताचारा मिथः सब्रह्मचारिणः ॥११॥ सतीर्थ्यास्त्वेकगुरवश्चितवानमिममिचित् ॥ त्यादियागविधायकविधिमात्रेणेष्टवान् यागं कृतवान् स यज्वा स्यात् एकम् । यज्वानौ ॥ ८॥ यः गीष्पतीष्टया बृहस्पतिसवविधिना इष्टवान् स स्थपतिरित्युच्यते । वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेतेति तद्विधि: एकम् । सोमपीथी “ सोमपीती सोमपीवी" सोमपाः सोमपः द्वे सोमयाजिनः । सोमपीथिनौ । “सवंदा ऽयं दीक्षितस्तु तत्कालम् ।" येन सर्वस्वदक्षिणो विश्वजिन्नामा याग इष्टः स सर्ववेदाः स्यात् एकम् । “ सर्वस्वं दक्षिणा यत्र । सर्व वेदयति सर्ववेदाः । किदु लाभे"। सर्ववेदसौ ॥९॥ सांगे शिक्षाद्यंगोपेते प्रवचने वेदे अधीती कृताध्ययनो ऽनूचान इत्येकम् । यो ऽनूचानो गुरोः सकाशात् गृहस्थाद्याश्रमांतरप्राप्तये लब्धानुज्ञः स समावृत्तः स्यात् एकम् । अभिषवे स्नाने कृते सति सुत्वा स्यात् सुयजोनिबिति सुनोते ते कनिप् । सुत्खन् । सुत्वा सुत्वानौ । अभिषवः स्नपने पीडने माने सुरासंधाने च ॥ १०॥ छात्रः अंतेवासी “ अंतवासीत्यपि" शिष्यः त्रीणि । गुरोर्दोषाच्छादनं छत्रं तच्छीलमस्य छात्रः । शीलमित्यनुवर्तमाने छत्रादिभ्यो ण इति णप्रत्ययः । अंते समीपे वस्तुं शीलमस्यांतेवासी । शैक्षाः प्राथमकल्पिकाः द्वे आरब्धाध्ययनानां बटुनाम् । शिक्षा लभंते ते शैक्षाः। प्रथमकल्पः आद्यारंभः प्रयोजनं येषां ते प्राथमकल्पिकाः । एकः समानो ब्रह्मव्रताचारो वेदव्रताचरणं येषां ते । एकशाखास्वाध्यायिनो ब्रह्मचारिणस्ते मिथः परस्परं सब्रह्मचारिण इत्युच्यते । चरणे ब्रह्मचारिणीति समानस्य सभावः एकम् ॥१२॥ एकः समानो गुरुर्येषां ते परस्परं सतीर्थ्याः स्युः । समानतीर्थे वासीति यत्प्रत्ययः। For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy