SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. “मीमांसको जैमिनीये वेदांती ब्रह्मवादिनि ॥ वैशेषिके स्यादौलूक्यः सौगतः शून्यवादिनि” ॥१॥ "नैयायिकस्त्वक्षपादः स्यात्स्याहादिक आर्हकः॥ चार्वाकलौकायतिको सत्कार्ये सांख्यकापिलौ” ॥२॥ उपाध्यायोऽध्यापको ऽथ स्यानिषेकादिकृगुरुः॥ मंत्रव्याख्याकृदाचार्य आदेष्टी त्वध्वरे व्रती ॥७॥ यष्टा च यजमानश्च स सोमवति दीक्षितः॥ द्वे वेदाध्यायिनः ॥६॥ मीमांसकमित्यादिपद्य द्वयमत्र केचित्पटंति । तदत्रत्य नेत्युपेक्षितम् । तस्येयं बालबोधार्थ व्याख्या । मीमांसकः जैमिनीयः द्वे मीमांसाशास्त्रवेत्तुः । वेदांती ब्रह्मवादी द्वे वेदांतशास्त्रज्ञस्य । वैशेषिक: औलूक्यः द्वे सप्तपदार्थवादिनः । तेच पदार्थाः । द्रव्यगुणकर्मसामान्यविशेषसमवायाऽभावाः सप्तेति कणादमतम् । सौगतः शून्यवादी द्वे जगत्कारणं शून्यमिति मतावलंबिनो नास्तिकस्य ॥ १॥ नैयायिकः अक्षपादः आक्षपादो वा द्वे न्यायशास्त्रज्ञस्य । प्रमाणप्रमेयसंशयविपर्ययतर्केत्यादिषोडशपदार्थवादिनः गोतमस्य । स्याद्वादिकः आहकः द्वे मोक्षो ऽस्ति स्यान्नास्ति स्यादिति वादिनः । चार्वाकः लौकायतिकः लोकायतिको वा द्वे देहात्मवादिनो बौद्धस्य । सांख्यः कापिलः द्वे तदेवेदं कार्य जगदिति मानिनः सांख्यशास्त्रज्ञस्य ॥ २ ॥ उपाध्यायः अध्यापकः द्वे ." उपेत्याधीयतेऽस्मादुपाध्यायः । अध्यापयतीत्यध्यापकः ।" निषेको गर्भाधानं आदिना पुंसवनादि । तस्य कर्मणः कर्ता पित्रादिर्गुरुः स्यात् एकम् । मंत्री वेदस्तस्य व्याख्याकृत् आचार्यः स्यात् । उपनीय तु यः शिष्यं वेदमध्यापयेहिजः । सांगं च सरहस्यं च तमाचार्य प्रचक्षते इति । एकम् । व्याख्यालक्षणं तु । पदच्छेदः पदार्थोतिर्विग्रहो वाक्ययोजना । आक्षेपोऽथ समाधान व्याख्यानं षडिधं मतमित्युक्तम् । अध्वरे यागविषये य ऋखिजामादेष्टा स व्रती ॥७॥ यष्टा यजमानः इति प्रयेणोच्यते । “आदिष्टीत्यपि पाठः" । तिनौ । यष्टारौ । स यजमानः सोमवति यागे आदेष्टा दीक्षित इत्युच्यते एकम् । इज्याशीलः यायजूक द्वे यजनशीलस्य । “पुनःपुनः भृशं वा यजते यायजूकः ।" विधिना सोमेन यजेते For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy