SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १६६ www.kobatirth.org सटीकामरकोशस्य Acharya Shri Kailashsagarsuri Gyanmandir विप्रक्षत्रियविट्शूद्राश्रातुर्वर्ण्यमिति स्मृतम् ॥ राजवीजी राजवंश्यो बीज्यस्तु कुलसंभवः ॥ २ ॥ महाकुलकुलीनार्यसभ्य सज्जनसाधवः ॥ ब्रह्मचारी ही वानप्रस्थो भिक्षुश्चतुष्टये ॥ ३ ॥ आश्रमो ऽस्त्री विजात्यग्रजन्मभूदेववाडवाः ॥ विश्व ब्राह्मणो ऽसौ षट्कर्मा यागादिभिर्वृतः ॥ ४ ॥ विद्वान् विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः ॥ धीरो मनीषी ज्ञः प्राज्ञः संख्यावान् पंडितः कविः ॥ ५ ॥ धीमान्सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः || दूरदर्शी दीर्घदर्शी श्रोत्रिय छांदसौ समौ ॥ ६ ॥ "" [ब्रह्मवर्ग: 66 स्युः एकम् ॥ १ ॥ ब्राह्मणक्षत्रियवैश्यशूद्राः वर्णाश्चातुर्वर्ण्यमित्येकम् । राजबीजी राजवंश्यः द्वे राजवंशोत्पन्नस्य । राजवीजिनौ । वीज्यः कुलसंभवः द्वे कुलमात्रोत्पन्नस्य || २ || महाकुलः “ माहाकुल: कुलीनः । महत्कुलमस्य महाकुल: महत्कुले भवो माहाकुलः । कुले भवः कुलीनः । आर्यः सभ्यः सज्जनः साधुः षट् सज्जनस्य । ब्रह्मचार्यादयश्चत्वारो ऽपि आश्रमशब्दवाच्या इत्यर्थः । कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा ॥ सर्वत्र मैथुनत्यागो ब्रह्मचर्यं तदुच्यते इति । एकम् । “वनमेव प्रस्थः प्रदेशस्तत्र भवः वानप्रस्थः । अत्र भिक्षुर्यतिः ॥ ३ ॥ द्विजातिः अग्रजन्मा भूदेवः वाडव: विप्रः ब्राह्मणः षट् ब्राह्मणस्य । “ वडवायां जातो वाडवः । वडवा द्विजयोषितीति मेदिनी ।” असौ ब्राह्मणो यागादिभिर्यजनादिभिर्युक्तः षट्कर्मा स्यात् । तदुक्तम् । इज्याध्ययनदानानि याजनाध्यापने तथा । प्रतिग्रहश्च तैर्युक्तः षट्कर्मा विप्र उच्यत इति । एकम् ॥ ४ ॥ विद्वान् विपश्चित् दोषज्ञः सन् सुधीः कोविदः बुधः धीर: मनीषी ज्ञः प्राज्ञः 66 प्रज्ञः । प्रज्ञस्तु पंडिते वाच्यलिंगो बुद्धौ तु योषितीति मेदिनी ।” संख्यावान् पंडितः कविः ॥ ५ ॥ धीमान् सूरिः कृती कृष्टिः लब्धवर्णः विचक्षणः दूरदर्शी दीर्घदर्शी द्वाविंशतिः पंडितस्य । विद्वांसौ । विपश्चितौ । संतौ । ज्ञौ । संख्यावंतौ । कृतिनौ । “संख्या विचारणास्त्यस्य संख्यावान् । लब्धो 1 वर्णः स्तुतिर्येन लब्धवर्णः । दूरान्दूराद्वा पश्यतीति दूरदर्शी ।” श्रोत्रियः छांदस । For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy