SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वितीयं कांडम्. १६३ मृगनाभिर्मृगमदः कस्तूरी चाथ कोलकम् ॥ १२९ ॥ कंकोलकं कोशफलमथ कर्पूरमस्त्रियाम् ॥ घनसारश्चंद्रसंज्ञः सिताम्रो हिमवालुका ॥ १३० ॥ गंधसारो मलयजो भद्रश्रीचंदनो ऽस्त्रियाम् ॥ तैलपर्णिकगोशीर्षे हरिचंदनमस्त्रियाम् ॥ १३१ ॥ तिलपर्णी तु पत्रांगं रंजनं रक्तचंदनम् ॥ कुचंदनं चाथ जातीकोशजातीफले समे ।। १३२ ॥ कर्पूरागरुकस्तूरीकंको लैर्यक्षकर्दमः ॥ " 46 मदो रेतसि कस्तूर्यामिति मेदिनी । मुख्यराट्क्षत्रयोर्नाभिः पुंसि प्राण्यंगके द्वयोः । चक्रमध्ये प्रधाने च स्त्रियां कस्तूरिकामद इति रभसः । " कोलकं “ कोरकं ” । कोरको ऽस्त्री कुडुले स्यात्कंकोलकमृणालयोरिति मेदिनी ॥ १२९ ॥ कोलकं कोशफलं त्रीणि कंकोळ, गवला इति ख्यातस्य । कर्पूरं घनसारः चंद्रः सिताः सिताभ इत्यपि । हिमवालुका पंच कर्पूरस्य । चंद्रसंज्ञश्चंद्र पर्यायनामकः । पुंसि कर्पूरः ॥ १३० ॥ गंधसारः मलयज भद्रश्री: चंदनः चत्वारि चंदनस्य 'मलयागुरु मैलागिरि इति ख्यातस्य । ” भद्रश्रियौ । तैलपर्णिकमित्येकं धवलशीतल चंदनविशेषस्य । गोशीर्षमित्येकं उत्पलगंधिचंदनस्य । हरिचंदनमित्येकं कपिलवर्णचंदनस्य | एवं त्रयो भेदाः । तिलपर्णे वृक्षभेदे जाता तैलपर्णी | स्वार्थे कन् । तैलपर्णगोशीर्षौ गिरी आकरावस्येति स्वामी ॥ १३१ ॥ तिलपर्णी पत्रांगं रंजनं रक्तचंदनं कुचंदनं पंच रक्तचंदनस्य । “ तिलपर्णी नदी आकरो ऽस्यास्ति । भच् ङीष् च । " जातीकोशं जातिफलम् । जातिकोशं जातिफलमित्यपि पाठः । जाति: जाती वा । कोशं फलं इति पृथगपि । जातिजतिफलेऽपि चेति रमसः । कोशो ऽस्त्री कुले पत्रे दिव्ये खड्गपिधानके । जातिको इति मेदि - नीविश्वप्रकाशौ । फलं लाभे जातिकोशे बाणाम्रे फलके ऽपि चेति रुद्रः । द्वे जायफळ इति ख्यातस्य ॥ १३२ ॥ कर्पूरादिभिः समभागैः पिंडीकृतो लेपविशेषो यक्षकर्दम इत्येकम् । “ कर्पूरागरुकस्तूरीकंको लघुसृणानि च । एकीकृतमिदं सर्व यक्षकर्दम इष्यत इति व्याडि: । घुसृणं केशरम् । अन्यत्स्पष्टम् । कुंकुमागरु , 1 For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy