SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १६४ सटीकामरकोशस्य [मनुष्यवर्ग: गात्रानुलेपनी वर्तिर्वर्णकं स्यादिलेपनम् ॥ १३३॥ चूर्णानि वासयोगाः स्युर्भावितं वासितं त्रिषु ॥ संस्कारो गंधमाल्याद्यैर्यः स्यात्तदधिवासनम् ॥ १३४ ॥ माल्यं मालास्रजौ मूर्ध्नि केशमध्ये तु गर्भकः॥ प्रभ्रष्टकं शिखालंबि पुरोन्यस्तं ललामकम् ॥ १३५॥ प्रालंबमृजुलंबि स्यात्कंठादैकक्षिकं तु तत् ॥ यत्तिर्यक्षिप्तमुरसि शिखास्वापीडशेखरौ ॥ १३६ ॥ रचना स्यात्परिस्थंद आभोगः परिपूर्णता ॥ उपधानं तूपवर्हः शय्यायां शयनीयवत् ॥ १३७॥ कस्तूरी कर्पूरं चंदनं तथा । महासुगंधिरित्युक्तं नामतो यक्षकर्दम इति धन्वंतरिः।" गात्रानुलेपनी वर्तिः वर्णकं विलेपनं चत्वारि “ गात्रानुलेपयोग्यस्य पिष्टपुष्टसुगंधिद्रव्यस्य उटणे इति ख्यातस्य । गात्रानुलेपनी वर्तिर्विगंध्यध विलेपनम् । वर्णकं चाप विच्छित्तिः स्त्री कषायों ऽगरागक इति रभसात् । आद्यद्वयमुक्तार्थमेव । वर्णकादिद्वयं घृष्टचंदना दिलेपमात्रस्य । कर्पूरागुरुरित्यपि पाठः" ॥ १३३ ॥ चूर्ण वासयोगः द्वे पटवासादिचूर्णमात्रस्य । “वासे सुगंधिकरणे योग उपायो वासयोगः।" भावितं वासितं द्वे गंधद्रव्येण वासितस्य वस्तुनः । त्रिषु । गंधमाल्यधूपादिभिर्यः संस्कारः “वत्रतांबूलादीनां" सौरभाधानं तदधिवासनमित्युच्यते । एकम् ॥ १३४ ॥ माल्यं माला स्रक त्रयं मुनि धृतायाः कुसुमावलेः । उपचारादन्यत्रापि प्रयोगः केशमध्ये धृता माला गर्भक इत्युच्यते एकम् । यन्माल्यं शिखायां लंबमानं तत्प्रभ्रष्टकमित्येकम् । पुरों न्यस्तं ललाटपर्यंत क्षिप्तं ललामकमित्येकम् ॥१३॥ यन्माल्यं कंठादृजुलंबि सरलं लंबमानं तत्प्रालंबमित्येकम् । यन्माल्यं तिर्यगुपवीतमनृजु उरसि क्षिप्तं तत् वैकक्षिकमित्येकम् चतुरक्षरम् । “विकक्षमुरस्तत्र भवं वैकक्षकमित्यपि ।" आपीडः शेखरः द्वे शिखासु न्यस्तमाल्यमात्रस्य ॥ १३६ ॥ रचना परिस्यंदः द्वे माल्यादिरचनायाः । “परिस्पंद इत्यपि पाठः ।" आभोगः परिपूर्णता द्वे सर्वोपचारिपरिपूर्णतायाः । उपधानं उपबर्हः द्वे उच्छीर्षस्य “ उशी इति ख्योतस्य" । उपधीयते आरोप्यते शिरो ऽत्र उपधानम् । शय्या शयनीयं For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy