SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य मनुष्यवर्गः: कालीयकं च कालानुसार्य चाथ समार्थकम् ॥ वंशिकागुरुराजाहलोहं कृमिजजोंगकम् ॥ १२६ ॥ कालागुर्वगुरु स्यान्तु मंगल्या मल्लिगंधि यत् ॥ यक्षधूपः सर्जरसो रालसर्वरसावपि ॥ १२७॥ बहुरूपो ऽप्यथ वृकधूपकृत्रिमधूपको॥ तुरुष्कः पिंडकः सिल्हो यावनो ऽप्यथ पायसः॥२८॥ श्रीवासो वृकधूपो ऽपि श्रीवेष्टसरलद्रवौ । कालीयकं कालानुसार्य त्रयं जायकाख्यगंधद्रव्यस्य पीतचंदन इति ख्यातस्य । ज. यति गंधांतरं जायकम् । कालीयकं च कालेयं वर्णकं कांतिदायकमिति व्याडिः । वंशिकं " वंशकं" अगुरु राजाहँ लोहं कृमिजं जोंगकम् ॥ १२६ ॥ कालागुरु सप्तकं समार्थकम् । कृष्णागुरुणः पर्याया इत्यर्थः । “न गुरुयस्मात्तदगुरु । अगुरुजोगके लघाविति हैमादगुरुः पुंस्यपि । अगुरुरिति क्वचित् । लोहो ऽस्त्री शस्त्रके लौहे जोंगके सर्वतैजस इति मेदिनीकोशाल्लोहं पुंस्यपि।" अगरु इत्यस्य यच्छब्देन संबंधः । स्यादित्यस्य त्वंतत्वादुत्तरेण संबंधः । यदगुरु मल्लिगंधि सा मंगल्या स्यादित्येकम् । “अत्र जोंगकांतानि अगुरुणः । कालागुर्वादि द्वयं कृष्णागुरुणः । त्वित्यत्र तदिति पाठस्तत्र यदगुरु मल्लिगंधि तन्मंगल्येत्यर्थः । यक्षधूपः सर्जरसः रालः सर्वरसः ॥ १२७ ॥ बहुरूपः पंच धूपस्य “राळ इति ख्यातस्य । अराल. इति वा । रालः सर्जरसो ऽरालो धूपको वन्हिवल्लभ इति रभसः । वृकधूपः. कृत्रिमधूपकः । अनेकपदार्थकृतधूपस्य । तुरुष्कः पिंडकः सिल्हः यावनः चत्वारि सिल्हाख्यगंधद्रव्यस्य " ऊद, लोबान इति ख्यातस्य" । तुरुष्कः सिल्हके म्लेच्छजातौ देशांतरेऽपि चेति विश्वमेदिन्यौ । पायसः ॥ १२८ ॥ श्रीवासः वृकधूपः श्रीवेष्टः “ श्रीपिष्टः । सरलद्रवश्रीपिष्टदधिक्षीरघृताव्हय इति रभसः।" स. रलद्रवः पंच सरलद्रवस्य “विशेषनामकधूप इति ख्यातस्य. । पयसो दुमस्य क्षीरस्य वा विकारः पायसः । सरलस्य देवदारोवः सरलद्रवः । पायसस्तु क्लीयपुंसोः श्रीवासपरमानयोरिति मेदिनी । मृगनाभिः मृगमदः कस्तूरी त्रयं कस्तूर्याः । मृगनाभिः पुंसि । मृगनाभिर्मगमदो मृगः कस्तूरिकापि चेति माधवः । For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy