SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वितीयं कांडम्. स्नानं चर्चा तु चार्चिक्यं स्थासको ऽथ प्रबोधनम् ॥ अनुबोधः पत्रलेखा पत्रांगलिरिमे समे ॥ १२२॥ तमालपत्रतिलकचित्रकाणि विशेषकम् ॥ द्वितीयं च तुरीयं च न स्त्रियामथ कुंकुमम् ॥ १२३॥ काश्मीरजन्मामिशिखं वरं बाल्हीकपीतने ॥ रक्तसंकोचपिशुनं धीरं लोहितचंदनम् ॥ १२४ ॥ लाक्षा राक्षा जतु क्लीबे यावो ऽलक्तो द्रुमामयः॥ लवंगं देवकुसुमं श्रीसंज्ञमथ जायकम् ॥ १२५ ।। उद्वर्तनं उत्सादनं द्वे पिष्टादिना शरीरमलापकरणस्य । आप्लावः आप्लवः।। १२१ ।। स्नानं त्रीणि स्नानस्य । चर्चा चाचिक्यं स्थासकः त्रीणि 'चंदनादिना देहविलेपविशेषस्य) उटी इति ख्यातस्य । “चचिकैव चाचिक्यम् । स्वार्थे प्य।" प्रबोधनं अनुबोधः द्वयं गतगंधस्य पुनर्गधव्यक्तीकरणे । यथा कस्तूरिकादेमद्यादिना । पत्रलेखा पत्रांगुलिः द्वे कस्तूरिकाकेशरादिना कपोलादौ रचितपत्रवल्लयाः । पत्राकृतिर्लेखा पत्रलेखा । कलिंगादिदेशेषु प्रसिद्धेयम् ॥१२२॥ तमालपत्रं । तमालस्य पत्रमिव तमालपत्रम् । तमालपत्रं तापिच्छे तिलके पत्रके ऽपिचेति विश्वः। तिलकं चित्रकं विशेषकं. चत्वारि ललाटे कस्तूर्यादिना कृततिलकस्य । “ तमालस्तिलके खडु इति विश्वातमाल इत्यप्यन्यत्र । अत्र द्वितीयं तिलकमिति तुरीयं विशेषकमिति च द्वे न स्त्रियां किंतु पुनपुंसकयोः । कुंकुमम् ॥ १२३ ॥ काश्मीरजन्म अग्निशिखं वरं बाल्हीकं “बाल्हिकं । बाहीकं बाहिकं धीरहिंगुनो श्वदेशयोरिति त्रिकांडशेषः।” पीतनं रक्तं संकोचं पिशुनं धीरं लोहितचंदनं एकादश कुंकुमस्य । रक्तं नील्यादिरंजिते । कुंकुम इति हैमः । संकोचो मीनभेदे च बंधे क्ली तु कुंकुम इति विश्वमेदिन्यौ । पिशुनं कुंकुमे ऽपि चेति मेदिनी ॥ १२४ ॥ लाक्षा राक्षा जतु यावः अलक्तः दुमामयः षटुं लाक्षायाः । “न लक्तोऽस्मादलक्तः । द्रुमाणामामयो द्रुमामयः ।" लवंगं देवकुसुमं श्रीसंज्ञं त्रीणि लवंगस्य । देवानां कुसुमं । कुसुमेषु देव इव । देवयोग्यं कुसुमं वा । श्रीसंज्ञं लक्ष्मीपर्यायनामकम् । जायकम् ॥ १२५ ॥ For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy