SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. १५५ चिकुरः कुंतलो वालः कचः केशः शिरोरुहः॥९५॥ तहदे कैशिकं कैश्यमलकाचूर्णकुंतलाः॥ ते ललाटे भ्रमरकाः काकपक्षः शिखंडेकः॥ ९६ ॥ कबरी केशवेशोऽथ धम्मिल्लः संयताः कचाः॥ शिखा चूडा केशपाशी तिनस्तु सटा जटा ॥ ९७॥ वेणिः प्रवेणी शीर्षण्यशिरस्यौ विशदे कचे॥ पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे ॥९८॥ तनूरुहं रोम लोम तबृद्धौ श्मश्रु घुमुखे ॥ मूर्द्धजास्त्वस्राश्चिकूराश्चिकुराः कचा इति दुर्गः।" कुंतलः वालः कचः केशः शिरोरुहः षट् केशस्य ॥ ९५ ॥ कैशिकं कैश्यं द्वे तद्वंदे केशानां समूहे । अ. लकाः चूर्णकुंतलाः द्वे कुटिलके शानाम् । ते अलकाः ललाटे लंबमानाः भ्रमरकाः स्युः । काकपक्षः शिखंडकः “शिखंडिकः शिखांडकः । शिखांडकशिखंडिकाविति वाचस्पतिसुभूती । शिखंडो बर्हचूडयोरिति मेदिन्याम् " । द्वे कुमारचूडायाः ॥९६ ॥ कबरी केशवेशः द्वे केशबंधरचनायाः । कबरी खी। संयताः मौक्तिकदामादिबद्धाः कचाः केशसमूहो धम्मिल्ल इत्येकं “बुचडा इति ख्यातस्य ।" शिखा चूडा केशपाशी त्रीणि शिखायाः । केशपाश्यौ । सटा जटा द्वे व्रतिनः शिखायाम् ॥ ९७॥ वेणिः प्रवेणी द्वे सीकाररचितकेशवेशस्य । वेणीत्यपि । "प्रवेणिरित्यपि । प्रवेणिः स्त्री कुथावेण्योरिति मेदिनी ।" शीर्षण्यः शिरस्यः द्वे विशदे निर्मले केशे। कचादित्यर्थप्रधानो निर्देशः । तेन कचपर्यायात् परे पाशादयस्त्रयः कलापार्थाः केशसमूहवाचिन इत्यर्थः । यथा कचपाशः । केशपाशः। केशपक्षः । कुंतलहस्तः ॥ ९८ ॥ तनूरुहं रोम लोम त्रयं रोम्णः । पुंमुखे पुंसो वके तस्य रोम्णो वृद्धौ सत्यां तद्रोम श्मश्रु स्यात् एकं "दाढी इति ख्यातस्य । श्मश्रुणी । आकल्पः वेषः । “वेश इति तालव्यांतो ऽपि । वेशो वेश्यागृहे गृहे । नेपथ्ये चेति मेदिनी ।" नेपथ्यं प्रतिकर्म प्रसाधनं पंच अलंकृतस्य शोभायाम् । नेपथ्यं तु प्रसाधने । रंगभूमौ वेषभेद इति हैमः । नेपथ्यशब्दः पुंस्यपि । नेपथ्यः For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy