SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [मनुष्यवर्गः आकल्पवेषौ नेपथ्यं प्रतिकर्म प्रसाधनम् ॥ ९९॥ दशैते विष्वलंकर्ता ऽलंकरिष्णुश्च मंडितः॥ प्रसाधितो ऽलंकृतश्च भूषितश्च परिष्कृतः॥१०॥ विभ्राट् भ्राजिष्णुरोचिष्णू भूषणं स्यादलंक्रिया ॥ अलंकारस्त्वाभरणं परिष्कारो विभूषणम् ॥ १०१ ॥ मंडनं चाथ मुकुटं किरीटं पुन्नपुंसकम् ॥ चूडामणिः शिरोरत्नं तरलो हारमध्यगः ॥ १०२॥ वालपाश्या पारितथ्या पत्रपाश्या ललाटिका॥ कर्णिका तालपत्रं स्यात्कुंडलं कर्णवेष्टनम् ॥ १०३॥ ग्रैवेयकं कंठभूषा लंबनं स्याल्ललंतिका ॥ स्यादलंकारे रंगज्यायां नपुंसकमिति मेदिनीकोशात् । प्रतिकर्मादि द्वयमलंकरणस्य वा ॥ ९९ ॥ एते अलंकादयः वक्ष्यमाणा दश शब्दात्रिषु वाच्यालिंगाः । अलंकर्ता अलंकरिष्णुः द्वे अलंकर्तरि । अलंकर्तुं शीलमस्यालंकरिष्णुः । मंडितः प्र. साधितः अलंकृतः भूषितः परिष्कृत: “ परिस्कृतः" पंच अलंकृतस्य ॥ १० ॥ विभ्राट भ्राजिष्णुः रोचिष्णुः त्रयमतिशयेन शोभमानस्य । विभ्राजौ । भूषणं अलंक्रिया द्वे भूषणक्रियायाः । “भूषा तु स्यादलंक्रियेत्यपि पाठः ।" अलंकारः आभरणं परिष्कारः “परिस्कारः” विभूषणम् ॥ १०१ ॥ मंडनं पंचालंकारस्य । मुकुटं “मकुटं" किरीटं द्वे "किरीटस्य । तत्र किरीटं पुंसि क्लीबे च ।” चूडामणिः शिरोरत्नं द्वे शिरोमणेः । हारमध्यगः हारमध्यगतो नायकमणिः तरलः स्यात् पदक इत्यादिख्यातस्य एकम् ॥ १०२ ॥ वालपाश्या पारितथ्या द्वे सीमंतभूषणस्य । “ स्वामी तु प्रथमं वालं बंधनं मुक्तावलीनामित्याह । परितस्तथाभूतैव पारितध्या ।” पत्रपाश्या ललाटिका द्वे ललाटभूषणस्य । कणिका कर्णस्यालंकारेऽर्थे। कर्णललाटात्कनलंकारे इति कन् ।कणिका कर्णभूषणमिति तालपत्रं " ताडपत्रं" द्वे ताटकस्य तानवड इति ख्यातस्य । कुंडलं कर्णवेष्टनं द्वे कुंडलस्य । तत्र कणिका स्त्रीभिरेव धार्यते । इदं पुरुषैरपि ॥ १०३ ॥ प्रैवेयकं कंठभूषा द्वे प्रीवाभरणस्य । “अवेयं प्रैवं चेत्यन्यत्र" । लंबनं ललंतिका द्वे आ For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy