SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [स्वर्गवर्ग: जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः॥ सुत्रामा गोत्रभिदजी वासवो वृत्रहा वृषा ॥४५॥ वास्तोष्पतिः सुरपतिर्बलारातिः शचीपतिः॥ जंभभेदी हरिहयः स्वारापनमुचिसूदनः॥ ४६॥ संकंदनो दुश्यवनस्तुरापाण्मेघवाहनः॥ आखंडलः सहस्राक्ष ऋभुक्षास्तस्य तु प्रिया ॥४७॥ पुलोमजा शंचींद्राणी नगरी त्वमरावती॥ हय उच्चैःश्रवाः सूतो मातलिनंदनं वनम् ॥४८॥ स्यात्प्रासादो वैजयंतो जयंतः पाकशासनिः॥ ऐरावतो ऽभ्रमातंगरावणाभ्रमुवल्लभाः॥४९॥ हादिनी वजमस्त्री स्यात्कुलिशं भिदुरं पविः ॥ शतकोटिः स्वरुः शंबो दंभोलिरशनिर्दयोः॥५०॥ पुरंदरः ॥ ४४ ॥ जिष्णुः लेखर्षभः शक्रः शतमन्युः । शतं मन्यवो यज्ञाः यस्य । मन्युर्दैन्ये क्रतौ क्रुधीति विश्वः । दिवस्पतिः सुत्रामा “सूत्रामा" गोत्रभित् वज्री वासवः वृत्रहा वृषा ॥४५॥ वास्तोष्पतिः सुरपतिः बलारातिः शचीपतिः जंभभेदी हरिहयः स्वाराट् नमुचिसूदनः ॥ ४६॥ संक्रंदनः दुश्चयवनः तुरापाट् मेघवाहनः आखंडल: सहस्राक्षः ऋभुक्षाः इति पंचत्रिंशर्दिद्रस्य । तत्र स्वाराट् जकारांतः । तुराषाट् हांतः । ऋभुक्षा नांतः पथिवत् । तस्येंद्रस्य प्रिया तु पुलोमजेत्युत्तरेण सं. बंधः ॥.४७॥ पुलोमजा शची "दंत्यादिरपि" इंद्राणी । इति त्रयमिंद्रप्रियायाः। इंद्रस्य नगरी तु अमरावती । तस्य अश्व उच्चैःश्रवाः । तस्य सारथिर्मातलिः । तस्योपवनं नंदनम् ॥ ४८ ॥ इंद्रस्य प्रासादो गृहविशेषः वैजयंतनामा । जयंतः पाकशासनिढे इंद्रपुत्रस्य । ऐरावतः अभ्रमातंग: ऐरावणः अभ्रमुवल्लभः इति चत्वारि ऐरावतस्य ॥ ४९ ॥ हादिनी वजं कुलिशं भिदुरं “भिदिरं" पविः शतकोटिः स्वरुः “सांतोऽपि" शंबः “संबः । शंवः । तालव्या अपि दंत्याश्च संबसू. करपांसव इत्यूष्मविवेकः" दंभोलः अशनिः इति दशकं वनस्य । तत्र हादिनी स्त्री । वनमस्त्री पुंनपुंसकलिंगम् । पव्यादयः पुंसि । अशनिर्द्वयोः स्त्रीपुंसयोः ॥५०॥ For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy