SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. १५३ ऊर्ध्वविस्तृतदोष्पाणिनृमाने पौरुषं त्रिषु ॥ ८७॥ कंठो गलो ऽथ ग्रीवायां शिरोधिः कंधरेत्यपि ॥ कंबुग्रीवा त्रिरेखा साऽवदुर्घाटा कृकाटिका ॥८॥ वास्ये वदनं तुंडमाननं लपनं मुखम् ॥ क्लीबे घ्राणं गंधवहा घोणा नासा च नासिका ॥ ८९ ॥ ओष्ठाधरौ तु रदनच्छदो दशनवाससी ॥ अधस्ताचिबुकं गंडौ कपोलौ तत्परा हनुः॥९॥ रदना दशना दंता रदास्तालु तु काकुदम् ॥ विस्तृतदोषौ भुजौ पाणी च येन तय नुः पुंसो यन्मानं तत्र पौरुषमित्येकं त्रिषु । स्त्रियां तु पौरुषी । दोः पाणिरिति विसर्गपाठोऽपि ॥ ८७॥ कंठः गलः द्वे "ग्रीवाग्रभागस्य गोंकनळी गोंकट रडी इति ख्यातस्य ।" ग्रीवा शिरोधिः । शिरः धीयते ऽस्याम् । कर्मण्यधिकर'. चेति अधिकरणे किप्रत्ययः ।कंधरा त्रीणि “मान इति ख्यातस्य ।" शिरोधिरपि स्त्री । सा ग्रीवा तिसृभी रेखाभिर्विशिष्टा कंत्रुग्रीवा स्यादित्येकम् । अवटुः घाटा कृकाटिका त्रीणि ग्रीवाशिरःसंधेः पश्चाद्भागस्य । “ग्रीवायामुन्नतभागस्य घांटी इति ख्यातस्येति केचित् ।" तत्रावटुः पुंसि ॥ ८८॥ वर्क आस्यं वदनं तुंडं आननं लपनं मुखं सप्त मुखस्य । “आस्यंते वर्णा येन । अस्यते प्रासो वा ऽस्मि तदास्यम् । ण्यत् । मुखं मुखांतरालं च द्वयमास्यमितीरितमिति शाश्वतः ।” घ्रा गंधवहा घोणा नासा । नासा तु नासिकायां च द्वारोज़ दारुणि स्त्रियाम् । “नसा नस्या । घ्राणं गंधवहा नासा नसा नस्या च नासिकेति साह. सांकः ।" नासिका । पंच नासिकायाः ॥ ८९ ॥ ओष्टः अधरः रदनच्छदः दशनवासः चत्वारि ओष्टस्य । ओष्ठाभ्यां सहितावधरौ । केचिदुपरिवोष्ठः अधोवर्त्यधर इति मन्यते तदयुक्तम् । अधरोष्ठः बिंबोष्टीत्यादिप्रयोगदर्शनात् । चिबुकमित्येकं अधस्तात् अधराधोभागे । गंडः कपोलः द्वे कपोलस्य “गाल इति ख्यातस्य ।" तत्रापि नेत्रकपोलमध्यदेशो गंड इति ग्रंथांतरम् । ताभ्यां कपोलाभ्यां परा चिबुकस्याधो हनुरित्येकम् । हनुः पुंस्यपि । प्रायेण स्त्रियाम् ।तत्परो ह. नुरिति ओकारघटितपाठोऽपि ॥ ९० ॥ रदनः दशनः दंतः रदः चत्वारि दंतस्य । तालु काकुदं द्वे तालुनः । रसज्ञा रसना । “ तालव्या अपि दंत्याश्चेत्यादौ जिव्हायां For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy