SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वितीयं कांडम्.. मध्यमं चावलमं च मध्यो ऽस्त्री द्वौ परौ द्वयोः॥७९॥ भुजबाहूं प्रवेष्टो दोः स्यात्कफोणिस्तु कूर्परः॥ अस्योपरि प्रगंडः स्यात्प्रकोष्ठस्तस्य चाप्यधः ॥ ८०॥ मणिबंधादाकनिष्ठं करस्य करभो बहिः॥ पंचशाखः शयः पाणिस्तर्जनी स्यात्प्रदेशिनी ॥ ८१ ॥ अंगुल्यः करशाखाः स्युः पुंस्यंगुष्ठः प्रदेशिनी ॥ मध्यमाऽनामिका चापि कनिष्ठा चेति ताः क्रमात्॥८२॥ पुनर्भवः कररुहो नखो ऽस्त्री नखरो ऽस्त्रियाम् ॥ त्रीणि तनुमध्यस्य माज, “ कमर” इति ख्यातस्य । अस्त्रीति मध्यमादिशब्दत्रयेऽप्यन्वेति ।" परौ द्वौ भुजबाहुशब्दौ स्त्रीपुंसयोः ॥ ७९ ॥ भुजः बाहुः “ बाहः । बाहोऽश्वभुजयोः पुमानिति दामोदरः । बाहो बाहुरिति स्मृत इति देशिकोशः।” प्रवेष्टः दोः चत्वारि भूजस्य । “नियां तु भुजा बाहा ।" दोषौ । शसादौ दोषः दोष्णेत्यादि । (दोर्दोषा च भुजो बाहुः पाणिहस्तः करस्तथेति धनंजयात् । दोषेति टाबंतोऽपि वर्तते ।" कफोणि: “कफणिः।कफोणिः कफणियोरिति शब्दार्णवः।" कूर्परः “कर्परः" हे कोंपर' इति ख्यातस्य । अस्य कृर्परस्योपरिभागे प्रगंड इत्येकम् । तस्य कूपरस्याधोभागे प्रकोष्ठ इत्येकम् ॥ ८॥पाणिप्रकोष्ठसंधिर्मणिबंधः तमारभ्य कनिष्टापर्यंत करस्य मांसलो बहिर्भागः करभ इत्युच्यते एकम् । पंचशाख: पंच शाखा इवांगुलयो ऽस्य । शयः “शमः । पाणिः शमः शयो हस्त इत्यमरमाला ।" पाणि: त्रीणि करस्य । तर्जनी प्रदेशिनी “प्रदेशतीत्यपि" द्वे अंगुष्ठसमीपांगुल्याः ॥ ८१ ॥ अंगुली करशाखा द्वे अंगुलीमात्रस्य । ता अंगुल्या क्रमेण अंगुष्टः प्रदेशिनी मध्यमा. अनामिका । न नामग्रहणं योग्यमस्याः। ब्रह्मणो ऽनया शिरच्छेदनात् अतएवास्यां पवित्रीक्रियते । कनिष्ठिका इति संज्ञा. भिरुच्यते एकैकम् । तत्रांगुष्ठः पुंसि । प्रागुक्तापि प्रदेशिनी तत्स्वरूपदर्शनार्थमिह पुनरुक्तेति न दोषः ॥ ८२॥ पुनर्भव: “पुनर्नवः" कररुहः नखः नखरः चत्वारि नखस्य । “ नखरः पुंसि क्लीवे च । नखरं त्रिष्विति अमरमाला ।”. तर्जन्यादिभिस्तिमृभिरंगुलिभिर्युते ऽगुष्ठे विस्तृते प्रादेशादयः क्रमात्स्युः । “ प्रादेश For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy