SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir .१५. सटीकामरकोशस्य मनुष्यवर्गः स्त्रियां स्फिचौ कटिपोथावुपस्थो वक्ष्यमाणयोः॥७५॥ भगं योनिर्दयोः शिश्नो मेंटो मेहनशेफंसी ॥ मुष्कों ऽडकोशो वृषणः पृष्ठवंशाधरे त्रिकम् ॥७६ ॥ पिचंडकुक्षी जठरोदरं तुंदं स्तनौ कुचौ ॥ चूचुकं तु कुचाग्रं स्यान्न ना कोडं भुजांतरम् ॥ ७७॥ उरो वत्सं च वक्षश्च दृष्टं तु चरमं तनोः॥ स्कंधो भुजशिरों ऽसो ऽस्त्री संधी तस्यैव जत्रुणी॥७॥ बाहुमूले उभे कक्षौ पार्श्वमस्त्री तयोरधः ॥ रपि" एकम् । द्वयहीने क्लीवे । द्वित्वमनित्यम् । स्फिचौ कटिप्रोयौ द्वे कटिस्थमांसपिंडयोः "कुले इति. ख्यातयोः । कटिः तस्याः प्रोधौ मांसपिंडौ कटिपोथौ । स्त्रियां स्फिचौ कटिप्रोथौ कटिप्रोथौ च पूलकाविति रभसः । कटी प्रोधाविति नामद्वयं वा । प्रोथो ऽश्वघोणाध्वगयोः कट्यामिति हैमः।" वक्ष्यमाणयोर्भगे शिश्रेच उपस्थ इत्येकम् ॥ ७५ ॥ भगं योनिः द्वे स्त्रीणामुपस्थस्य । द्वयोरित्यस्य योनिना. न्वयः । शिश्न: मेंढ़ः मेहनं शेफः "शेपः' चत्वारि शिश्नस्य । मेंमित्यपि पाठः। मुष्कः अंडकोशः “मूर्धन्यांतो ऽपि ।" वृषणः त्रीण्यंडकोशस्य “आंडकुली इति ख्यातस्य ।” पृष्ठवंशाधरे त्रिभिरस्थिभिटितं स्थानं त्रिकं इत्येकं “ माकडहाड इति ख्यातस्य" ॥ ७६ ॥ पिचंड: "पिचिंडः" कुक्षिः जठरं उदरं सुंदं पंच जठरस्य । तत्र पिचंडकुक्षी पुंसि । “जठरं विकल्पेन पुंसि । जठरो न स्त्रियां कुक्षौ वृद्धकर्कटयोनिधिति मेदिनी।" स्तनः कुचः द्वे वक्षोजस्य । चूचुकं कुचाग्रं द्वयं स्तनाप्रस्य । चू चुको ना कुचाननमिति रत्नकोशः।"चूष्यते पीयत इति चूचुकम्।" कोडं भुजांतरम् ॥७॥ उरः वत्सं । पुत्रादौ तर्णके वर्षे वत्सो वत्सं तु वक्षसीति रुद्रः। वक्षः पंच वक्षसि । तत्र कोडं न ना किंतु स्त्रीनपुंसकयोः । स्त्रियां तु कोडा। तनोः शरीरस्य चरमं पश्चाद्भागः पृष्टमित्यकम्।स्कंध स्कंधः प्रकांडे कायें ऽसे विज्ञानादिषु पंचसु । नृपे समूहे व्यूहे चेति हैमः । भुजशिरः अंसः त्रीणि भुजशिरसः “खांदा इति ख्यातस्य ।" तस्य स्कंधस्य संधी जत्रुशब्दवाच्यौ एक "नपुंसकम्” ॥ ७८ ॥ बाहुमूलं कक्षः द्वे करस्य । तयोरधोभागः पार्थमित्येकम् । मध्यमं अवलग्नं मध्यः For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy