SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १४८ सटीकामरकोशस्य मनुष्यवर्गः सृर्णिका स्पंदिनी लाला दूषिका नेत्रयोर्मलम् ॥ "नासामलं तु सिंघौणं पिंजूषं कर्णयोर्मलम् ॥" मूत्रं प्रस्राव उच्चारावस्करौ शमलं शकृत् ॥ ६७॥ पूरीषं गूथवर्चस्कमस्त्री विष्ठाविशी स्त्रियौ ॥ स्यात्कर्परः कपालो ऽस्त्री कीकसं कुल्यमस्थि च ॥६८॥ स्याच्छरीरास्थि कंकालः एष्ठास्थ्नि तु कशेरुका ॥ शिरोस्थनि करोटिः स्त्री पार्थास्थनि तु पशुका ॥६९॥ अंग प्रतीको ऽवयवो ऽपघनो ऽथ कलेवरम् ॥ गात्रं वपुः संहननं शरीरं वर्म विग्रहः ॥ ७० ॥ कायो देहः क्लीबपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः॥ त्रीणि लालायाः " लाळ इति ख्यातायाः ।" स्यंदिनी दंत्यादिः । दूषिकेत्येक नेत्रयोर्मलस्य “ उकीर पू इति ख्यातस्य । दूषीका दीर्घमध्यापि । दूषिर्दूषी चेत्यप्यन्यत्र । सिंघाणमित्येकं नासामलस्य । सिंहाणं सिंहानं चेत्यपि । पिंजूष इत्येकं कर्णमलस्य" । मूत्रं प्रस्रावः द्वे मूत्रस्य । उच्चारः अवस्करः शमलं शकृत् ॥ ६७ ॥ पुरीषं गूधं वर्चस्कं विष्ठा विट् नव विष्टायाः । “ उच्चार्यते त्यज्यते इत्युच्चारः । अवकीर्यते अधः क्षिप्यत इत्यवस्करः।" गूथं वर्चस्तं पुंसि क्लीबे च । शकृती । “ विट् तालव्यमूर्धन्यांत्यः । विशौ । विषौ । गृथं पूरीषं वर्चस्क. मित्यपि पाठः ।" कर्परः कपालः द्वे शिरोस्थिखंडस्य । कपालमखियाम् । कीकसं कुल्यं अस्थि त्रीणि अस्थिमात्रस्य ॥ ६८॥ कंकाल इत्येकं शरीरगतास्थिपंजरस्य "सांगाडा, पिंजरा इति ख्यातस्य।" कशेरुकेत्येकं पृष्ठमध्यगतास्थिदंडस्य “कणा इति ख्यातस्य" । करोटिरित्येकं शिरोगतास्थिसंघस्य । “करोटीति जीपंतापि । यदाह पुष्पदंतः । नृकरोटीपरिकर इति" । पर्युकेत्येकं पार्श्वगतास्थिनि “वर्गडी इति ख्याते ।" ॥ ६९ ॥ अंग प्रतीकः अवयवः अपघनः चतुष्कं देहावयवस्य । कलेवरं गात्रं वपुः संहननं शरीरं वर्म विग्रहः । विविधं सुखादि गृण्हाति । वि. विधैर्व्याधिभिर्गृह्यते वा ॥ ७० ॥ कायः देहः मूर्तिः तनुः तनूः द्वादश देहस्य । वपुषी । वर्मणी | बन्वौ । पादानं प्रपदं द्वे पादाप्रस्य चवडा इति ख्यातस्य । For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy