SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्.. १४७ पिशितं तरसं मांसं पललं क्रव्यमामिषम् ॥ उत्तप्तं शुष्कमांसं स्यात्तहलूरं त्रिलिंगकम् ॥ ६३॥ रुधिरे ऽसृक्लोहितास्ररक्तक्षतजशोणितम् ॥ बुक्काग्रमांसं हृदयं हृन्मेदस्तु वपा वसा ॥६४॥ पश्चाद्रीवाशिरा मन्या नाडी तु धमनिः शिरा ॥ तिलकं क्लोम मस्तिष्क गोर्दै किटं मलो ऽस्त्रियाम्॥६५॥ अंत्रं पुरीतत् गुल्मस्तु प्लीहा पुंस्यथ वनसा ॥ स्नायुः स्त्रियां कालखंडयकृती तु समे इमे ॥ ६६ ॥ यांतर्गतपदाकारमांसभेदस्य काळीज इति ख्यातस्य ।" तदेव हृदयम् । उक्तं च । पद्मकोशप्रतीकाशं रुचिरं चाप्यधोमुखम् । हृदयं तद्विजानीयाद्विश्वस्यायतनं महदिति । बुका स्त्री । “बुकाममांसमिति समस्त मपि।" हृदयं हृत् द्वे हृदयाख्यनिम्नदेशस्य । वुकादिचतुष्कं समानार्थमित्येके । हृदी हृदि । मेदः वपा वसा त्रीणि मांसजन्यस्नेहस्य । “चरबी मांदें इति ख्यातस्य ।" मेदसी ॥६४ ॥ ग्रीवायाः शिरो श्रीवाशिरा । या पश्चात्स्थिता ग्रीवाशिरा सा मन्येत्युच्यते एकम् )। नाडी धमनिः शिरा त्रयं शिरायाः " नाडी इति ख्यातायाः ।" सिरेति दंत्यादिरपि । कृदिकारादक्तिन इति ङीषि धमनीत्यपि । तिलकं क्लोम द्वे मांसपिंडविशेषस्य पुप्फुस इति ख्यातस्य । क्लोममित्यदंतमपि । मस्तिष्क “मस्तिकं । अथ मस्तिस्को मस्तुलिंगो ऽपीति त्रिकांडशेषः ।" गोर्दै “ गोदः" द्वे मस्तकसंभूतघृताकारस्नेहस्य " गोद मेंदु" इति ख्यातस्य । किट्ट मलः द्वे कर्णादिगतमलस्य । “वसा शुक्रममृक् मज्जा कर्णविण्मूत्रविण्नखाः । श्लेष्माश्रुदूषिकाः स्वेदो द्वादशैते नृणां मलाः" ॥ ६५ ॥ अंत्रं " आंत्रमित्यपि मनोरमायामुक्तम् ।" पुरीतत् पुरी शरीरं तनोतीति । द्वे अंत्रस्य " आंतडें इति ख्यातस्य ।" पुरीतती पुरीतंति । "पुरीतदस्त्रियामिति वाचस्पतिकोशात्पुंस्यपि ।" गुल्मः प्लीहा द्वे वामकुक्षिस्थमांसपिंडविशेषस्य । प्लीहानौ । “प्लीहाशब्दष्टावतोऽपि ।” वस्नसा स्नायुः द्वे अंगप्रत्यंगसंधिबंधनरूपायाः स्नायोः “ शिरा इति ख्यातायाः ।" कालखंडं यकृत् द्वे दक्षिणकुक्षिगतमांसपिंडस्य ॥ ६६ ॥ सृणिका “ मृणीका" स्यदिनी लाला For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy