SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १४२ सटीकामरकोशस्य [मनुष्यवर्गः अवटीटो ऽवनाटचाऽवभ्रटो नतनासिके ॥ केशवः केशिकः केशी बलिनो बलिभः समौ ॥ ४५ ॥ विकलांगस्त्वपोगंडः खो हस्वश्च वामनः॥ खरणाः स्यात्खरणसो विग्रस्तु गतनासिकः ॥ ४६॥ खुरणाः स्यात्खुरणसः प्रक्षुः प्रगतजानुकः॥ ऊर्ध्वजरूर्वजानुः स्यात्संज्ञः संहतजानुकः॥४७॥ स्यादेडे बधिरः कुजे गडुलः कुकरे कुणिः ॥ अवटीटः अवनाटः अवघट: नतनासिकः चत्वारि चिपिटनासिकस्य । विग्रहस्तु नासिकायाः नतं अवनाटमित्यादि । तद्युक्तत्वात् पुरुषोऽवटीट: । अर्शआद्यच । केशवः केशिकः "केशवान्” केशी वयं प्रशस्तकेशस्य । प्रशस्ताः केशाः संत्यस्य केशवः । बलिनः बलिभः द्वे जरया श्लथचर्मणः । बलिस्त्वक्संकोचोऽस्ति यस्य स बलिनः ॥ ४५ ॥ विकलांगः अपोगंडः द्वे निसर्गतो न्यनावयवस्य । अपकृष्टं गच्छतीत्यपोगंडः । पृषोदरादिः । पौगंड एकदेशो ऽस्य पोगंडः पौगंडश्चेत्यपि । पोगंडो विकलांगक इति रत्नकोशः । पौगंडो विकलांगः स्यादिति हलायुधश्च ।" खर्वः -हस्वः वामनः त्रयं -हस्वस्य "खुजा इति ख्यातस्य ।" खरणाः खरणस: द्वे तीक्ष्णनासिकस्य “ सरळनाकील इति ख्यातस्य ।" खरणाः सांतः । विनः “विख्नः विख्नुः विख्यः । विगता नासिका यस्येति विग्रहः । नासिकाशब्दस्य ग्रादेशः ख्यश्चेति । विग्रो विम्युर्विनासिक इति रभसः ।" गतनासिकः द्वे गतनासिकस्य “ नकटा इति ख्यातस्य "॥४६॥ खुरणाः सांतः । खुरणसः अदंतः द्वे विकटनासिकस्य । खुरः शर्फ तन्नासिकस्य । खुरणसौ । प्रजुः “प्रज्ञः" प्रगतजानुकः प्रगते विरले जानुनी यस्येति विग्रहः । शेषे कप् । द्वे यस्य जान्वोर्महदंतरालं वर्तते तस्य “फेंगडा इति ख्यातस्या, ऊर्ध्वजुः “ऊर्ध्वज्ञः" ऊर्ध्वजानुः द्वे तिष्ठतो यस्य जानुनी ऊर्ध्वं भवतस्तस्य । संजुः “संज्ञः" संहतजानुकः द्वे संलग्नजानुकस्य । “प्रजुः प्रगतजानुः स्यात्प्रज्ञो ऽप्यत्रैव दृश्यते । संजुः संहतजानौ च भवेत्संज्ञो ऽपि तत्र हि । ऊर्ध्वजुरूर्वजानुः स्यादूर्ध्वज्ञोऽप्यूर्वजानुक इति साहसांकः” ॥ ४७ ॥ एडः बधिरः द्वे श्रवणेंद्रियहीनस्य " बहिरा इति ख्यातस्य ।” कुब्जः " न्युजः । कुजो वृक्षप्रभेदे ना For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy