SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. पलितं जरसा शौक्ल्यं केशादौ विलसा जरा ॥ स्यादुत्तानशया डिंभा स्तनपा च स्तनंधयी ॥ ११ ॥ बालस्तु स्यान्माणवको वयस्यैस्तरुणो युवा ॥ प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरनपि ॥४२॥ वर्षीयान्दशमी ज्यायान्पूर्वजस्त्वग्रियो ऽग्रजः॥ जघन्यजे स्युः कनिष्ठयवीयोऽवरजानुजाः॥४३॥ अमांसो दुर्बलश्छतो बलवान्मांसलों ऽसलः॥ तुंदिलस्तुंदिभस्तुंदी बृहत्कुक्षिः पिचंडिलः ॥ १४ ॥ भादिना लोनां ग्रहणम् । विस्रसा जरा द्वे जरायाः । विस्रस्यते ऽनया विनसा । जीर्यत्यंगमनया जरा । उत्तानशया डिंभा स्तनपा स्तनंधयी चत्वारि स्तनंधयस्य । त्रिषु वक्ष्यते । स्त्रीत्वेन निर्देशः स्त्रीत्वे रूपभेदप्रदर्शनार्थः । डिभशब्दः सिंहादिवर्ग उक्तो ऽपि स्त्रियां टांबतत्वप्रदर्शनाय पुनरिहोक्तः॥४१॥ बालः माणवकः द्वे बालस्य । आषोडशाद्वालः । वयस्यः । वयसि तिष्ठतीति "वयस्थ इत्यपि" । वयः पक्षिणि बाल्यादौ वयो यौवनमात्रक इति विश्वः । तरुणः युवा त्रयं यूनः। प्रवयाः स्थविरः वृद्धः जीनः जीर्णः । जरन् षटं वृद्धस्य । प्रवयसौ । जरंतौ ॥ ४२ ॥ वर्षीयान् दशमी ज्यायान् त्रीण्यतिवृद्धस्य । अतिशयेन वृद्धो वर्षीयान् वर्षीयांसौ। " दशमो ऽवस्थाविशेषो ऽस्यास्तीति दशमी । वयसि पूरणादिनिः ।" दशमिनौ। ज्यायांसौ । पूर्वजः अग्रियः “ अग्रीयः " अग्रजः त्रीणि ज्येष्ठभ्रातुः । “ पूर्वस्मिन्काले जातः पूर्वजः।" जघन्यजः कनिष्ठः “ कनीयानित्यपि” यवीयान् " यविष्ठः अतिशायन इतीष्टन् ।” अवरजः अनुजः पंचकं कनिष्ठ भ्रातुः । “जघन्ये ऽवरकाले जातः जघन्यजः । अवरस्मिन्काले जातः अवरजः।" ॥४३॥ अमांसः दुर्बलः छातः त्रीणि अबलस्य । छातश्चवर्गादिः । छो छेदने । शात इति पाठः । बलवान् मांसलः अंसलः त्रीणि बलवतः । “ अंसो बलमस्यास्तीत्यंसलः । " तुंदिलः “ तुंडिलः । तुंदिकः तुंदितः ।" तुंदिभः “ तुंडिभः " तुंदी " तंडी" बृहत्कुक्षिः पिचंडिल: “ पिचिंडिल: " पंच बृहदुदरस्य । तुंदमस्यास्तीति तुंदिलः। तुंदादिभ्य इलच् मत्वर्थे तुंदिबलि इति भप्रत्ययश्च । डिभौ ॥४४॥ For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy