SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १४. सटीकामरकोशस्य मनुष्यवर्गः श्वश्रूश्वशुरौ श्वशुरौ पुत्रौ पुत्रश्च दुहिता च ॥ ३७॥ दंपती जपती जायापती भार्यापती च तौ॥ गर्भाशयो जरायुः स्यादुवं च कललो ऽस्त्रियाम् ॥३८॥ सूतिमासो वैजननो गर्भो भ्रूण इमौ समौ ॥ तृतीयाँप्रकृतिः षंढः क्लीबः पंडो नपुंसके ॥ ३९ ॥ शिशुत्वं शैशवं बाल्यं तारुण्यं यौवनं समे ॥ स्यात्स्थाविरं तु वृद्धत्वं वृद्धसंघे ऽपि वार्धकम् ॥ ४०॥ प्रयोग इति न्यासः । श्वश्रूश्वशुरौ श्वशुरौ द्वे सहोक्तयोः श्वश्रूश्वशुरयोः । पुत्रश्च दु. हिता च एकशेषे पुत्रौ स्यातामित्यर्थः एकम् ॥ ३७॥ दंपती जंपती जायापती भा. र्यापती चत्वारि दंपत्योः जायाशब्दस्य जंभावो दंभावश्च वा निपात्यते । तावित्यनेनैते शब्दा द्विवचनांताः पुंसीति सूचितम् । “शाल्मली मैथिली मैत्री दंपती जंपत्ती च सेति वाचस्पती स्त्रीत्वमप्युक्तम्।" गर्भाशयः जरायुः उल्वं त्रीणि येन वेष्टितो गर्भः कुक्षौतिष्टति तस्य चर्मणः । गर्भ आते ऽत्र गर्भाशयः जरायुरुदंतः। कलल इत्येकम् शुक्रशोणितसन्निपातस्य प्रसिद्धत्वादस्य पर्यायो नोक्तः । किंतु अस्त्रीत्वमात्रं विधीयते । उल्बपर्यायः कलल इत्येके । यदाहुः । तदुल्वं कललं च तदिति ॥ ३८॥ सू. तिमासः वैजननः द्वे प्रसवमासस्य । यत्र नवमे वा दशमे मासि प्रसूयते तस्येत्यर्थः । “ विजायते ऽस्मिन्विजननः" । विजनन एव वैजननः । स्वार्थे ऽण् । गर्भः भ्रूणः द्वे कुक्षिस्थस्य प्राणिनः । तृतीयाप्रकृतिः षंढः क्लीबः पंडः नपुंसकः पंच नपुंसकस्य । तृतीयाप्रकृतिरिति षडक्षरं नाम । संज्ञापूरण्योश्चेति निषेधान्न पुंवद्भावः। तृतीयप्रकृतिरित्यपि नघटितमनित्यमिति न्यायेन उक्तनिषेधानित्यत्वात्पुंवद्भावः । पंढः स्यात्पुंसि गोपतौ । आकृष्टांडे वर्षवरे तृतीयप्रकृतावपीति कोशांतरात् ।" तत्र प्रथमा प्रकृतिः स्त्री । द्वितीया पुमान् । तृतीया क्लीब इति । षंढो मूर्धन्यादिस्तालव्यादिर्वा ॥ ३९ ॥ शिशुत्वं शैशवं बाल्यं त्रयं बालत्वे । तारुण्यं यौवनं द्वे । स्थाविरं वृद्धत्वं वार्धकम् “ वार्धक्यमित्यपि । वार्द्धक्यं वार्द्धके वृद्धसंघाते वृद्धकमणीति विश्वः ।" त्रीणि वृद्धत्वे । तत्र वार्द्धकमित्येकं वृद्धसंधे ऽपि वृद्धानां समूहेऽपि ॥ ४०॥ केशादौ जरसा यत् शौक्ल्यं धवलिमा तत्पलितमुच्यते । For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy