SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वितीयं कांडम्. मातुर्मातामहाद्येवं सपिंडास्तु सनाभयः ॥ ३३ ॥ समानोदर्य सोदर्य सग सहजाः समाः ॥ सगोत्रबांधवज्ञातिबंधुस्वस्वजनाः समाः || ३४॥ ज्ञातेयं बंधुता तेषां क्रमाद्भावसमूहयोः ॥ धवः प्रियः पतिर्भर्ता जारस्तुपपतिः समौ ॥ ३५ ॥ अमृते जारजः कुंडो मृते भर्तरि गोलकः ॥ भ्रात्रीयो भ्रातृजो भ्रातृभगिन्यौ भ्रातरावुभौ ॥ ३६॥ मातापितरौ पितरौ मातरपितरौ प्रसूजनयितारौ ॥ For Private And Personal १३९ 66 प्रमातामहः एकम् । सपिंडाः सनाभयः द्वे सप्तपुरुषावधिज्ञातिषु । सपिंडता तु पुरुषे निवर्तते इति स्मृतेः । 66 | समान एकः पिंडो देहो मूलपुरुषो निर्वापयो वा ऽस्य । सपिंडेन वर्तत इति वा सपिंडः । समानो नाभिर्मूलपुरुषो ऽस्य सनाभिः । " ॥ ३३ ॥ समानोदर्यः सोदर्यः सगर्भ्यः सहजः चत्वारि एकोदरस्य भ्रातुः । सगोत्रः बांधवः ज्ञातिः बंधुः स्वः स्वजनः षट् सगोत्रस्य । समानमेकं गोत्रमस्य सगोत्रः । अत्र स्वशब्दस्य स्वरूपं स्वः स्वौ स्वाः इत्यादि ॥ २४ ॥ तेषां भावसमूहयोः क्रमात् ज्ञातेयं बंधुता स्यात् । यथा ज्ञातीनां भावो ज्ञातेयं एकम् । बंधूनां समूहो बंधुता एकम् । धवः प्रियः पतिः भर्ता चत्वारि पत्युः । जारः उपपतिः । द्वे मुख्यादन्यस्य भर्तुः । “ उपमितः पत्या । उपसृष्टः पतिरनेन वा उपपतिः प्रादिभ्यो धातुजस्य वाच्यो वाचोत्तरपदलोपश्चेति समासः ।। ३५ ।। अमृते भर्तरि जाराज्जातः कुंड इत्युच्यते एकम् । “कुंड्यते कुलमनेन कुंडः । कुडि दाहे । स्त्रियां तु कुंडी | कुंडमग्न्यालये मानभेदे देवजलाशये । कुंडी कमंडलौ जारात्पतिवत्नीसुते पुमान् ।” मृते भर्तरि जाराज्जातो गोलक इत्येकम् । भ्रात्रीयः " भ्रातृव्यः " भ्रातृजः द्वे भ्रातृपुत्रस्य । भ्रातृभगिन्यौ भ्रातराविति स्यातां एकम् । उभाविति स - होक्तौ सत्यामिति सूचनार्थं । भ्राता च स्वसा च भ्रातरौ । भ्रातृपुत्रौ स्वसृदुहितृभ्यामित्येकशेषः || ३६ || मातापितरौ पितरौ मातरपितरौ प्रसूजनयितारौ चत्वारि द्विवचनांतानि मात्रा सहोक्ते पितरि । माता च पिता च पितरौ । पिता मात्रेत्येकशेषः । मातरपितरावित्यत्र ऋकारयोररभावो निपात्यते । तेन मातरपितराभ्यामिति " -
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy