SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वितीयं कांडम्. १३७ स तु द्विजोऽग्रेदिधिषूः सैव यस्य कुटुंबिनी ॥ २३ ॥ कानीनः कन्यकाजातः सुतो ऽथ सुभगासुतः ॥ सौभागिनेयः स्यात्पारस्त्रैणेयस्तु परस्त्रियाः ॥ २४॥ पैतृष्वसेयः स्यात्पैतृष्वस्रीयश्र पितृष्वसुः ॥ सुतो मातृष्वसुश्चैवं वैमात्रेयो विमातृजः ।। २५ ॥ अथ बांधकिनेयः स्याबंधुलवासती सुतः ॥ कौलटेरः कौलटेयो भिक्षुकी तु सती यदि ॥ २६ ॥ तदा कौलटिनेयो ऽस्याः कौलटेयो ऽपि चात्मजः ॥ आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी ॥ २७ ॥ आहुहितरं सर्वे ऽपत्यं तोकं तयोः समे ॥ दिधिषूः परपूर्वा दिधिषुस्तत्पुरंधिक इति नाममाला ।” द्विजशब्देन वर्णत्रयस्यापि ग्रहणम् || २३ || कन्यकाया अनूढाया जातः सुतः कानीन इत्युच्यते । कर्णः व्यासश्च एकम् । सुभगासुतः सौभागिनेयः द्वे सुभगापुत्रस्य । यः परस्त्रियाः सुत: पारस्त्रैणेयः एकम् ॥ २४ ॥ पितृष्वसुः पितृभगिन्याः सुतः पैतृष्वसेयः पैतृष्वस्रीयः द्वे । मातृष्वसुः सुतोऽप्येवम् । यथा मातृष्वसेयः मातृष्वस्रीयः द्वे । विमाता मातुः सपत्नी तस्याः पुत्रो वैमात्रेय इत्युच्यते एकम् | “वैमात्रोऽप्यन्यत्र "" ॥ २५ ॥ बांधकिनेयः बंधुलः असतीसुतः कौलटेरः कौलटेयः पंच कुलटापुत्रस्य ॥ २६ ॥ यदि तु ती भिक्षुकी भिक्षार्थिनी तर्हि तस्या आत्मजः कौलटिनेयः कौलटेयः द्वे । कुलानि भिक्षार्थं अटति न तु जारार्थं तस्याः कुलटायाः पुत्रः कौलटिनेयः । इतरस्याः कौलटेर इति भेद: । कुलं जनपदे गृह इति विश्वः । आत्मजः तनयः सूनुः सुतः पुत्रः पंत्रकं पुत्रस्य । “ पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः । तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयंभुवेति । " अमी आत्मजादयः सर्वे स्त्रियां वर्तमानाः ॥ २७ ॥ दुहितरं आहुः । यथा आत्मजा तनया सूनुः सुता पुत्री दुहितेत्यपि ऋदंतं । अपत्यं तोकं द्वे तयोः समे पुत्रे दुहितरि च क्लीबलिंगे एवेत्यर्थः । औरसः उरस्यः " औरस्य इत्यपि " द्वे स्वजाते सवर्णायामूढायां स्वस्माज्जाते १८ For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy