SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १३६ सटीकामरकोशस्य मनुष्यवर्गः स्त्रीधर्मिण्यविरात्रेयी मलिनी पुष्पवत्यपि ॥२०॥ ऋतुमत्यप्युदक्यापि स्याद्रजः पुष्पमार्तवम् ॥ श्रद्धालुर्दोहदवती निष्कला विगतार्तवा ॥ २१ ॥ आपन्नसत्वा स्याबविण्यंतर्वनी च गर्भिणी ॥ गणिकादेस्तु गाणिक्यं गाभिणं यौवतं गणे ॥ २२ ॥ पुनर्दिधिषूरूढा विस्तस्या दिधिषुः पतिः॥ मलिनी पुष्पवती ॥ २०॥ ऋतुमती उदक्या अष्ट रजस्वलायाः । द्वादशाद्वत्सरादूर्ध्वमापंचाशत्समाः स्त्रियाः । मासि मासि भगद्वारात्प्रकृत्यैवार्तवं स्रवेत् इति वैद्यशास्त्रे । द्वादशाब्दे व्यतीते तु यदि पुष्पं बहिर्न हि । अंतःपुष्पं भवत्येव पनसोदुंबरादिवत् इति वात्स्यायनः । स्त्रीधर्मो रजः सोऽस्ति अस्याः सा स्त्रीधर्मिणी । अवि स्त्रीधर्मिणी विद्यादिति कात्यः । “ अवीति दीर्घातापि । आत्रेयीवदगम्यत्वादात्रेयी । आत्रेयिकेत्यन्यत्र । रजः पुष्पं आर्तवं त्रीणि स्त्रीरजसः । ऋतुरेवातवं प्रज्ञाद्यण् । ऋतुर्नाम शोणितदर्शनोपलक्षितो गर्भधारणयोग्यः स्त्रीणामवस्थाविशेष उच्यते” । श्रद्धाल: दोहदवती द्वे गर्भवशादन्नादिविशेषाभिलाषिण्याः । " दोहदं गाभण्यभिलाषो ऽस्त्यस्याः" । निष्कला " निष्कली" विगतार्तवा द्वे हीनरजस्कायाः । “निर्गतं कलं शुक्रमस्याः निष्कला" ॥ २१॥ आपन्नसत्वा आपन्नं सत्वं जंतुरनया ऽस्यां वा । गुर्विणी अंतर्वनी गर्भिणी चत्वारि गर्भिण्याः। " अंतरस्त्यस्यां गर्भोऽतर्वत्नी।" गणिकादेर्गणे समूहे गाणिक्यादि । यथा गणिकानां समूहो गाणिक्यम् । गर्भिणीनां समूहो गार्भिणम् । युवतीनां समूहो यौवतम् । एकैकम् ॥ २२॥ या द्विरूढा द्विवारं वृता तत्र पुनर्भूः दिधिषः “दिधीषूः विधिपुरपि ।” द्वे । पूर्वमेकस्य भूत्वा पुनरन्यस्य भवतीति पुनर्भूः “अक्षता च क्षता चैव पुनर्भूः संस्कृता पुनरित्युक्तम् । मनुस्तु । ज्येष्ठायां यद्यनूढायां कन्यायामूह्यते ऽनुजा । सा चादिधिषुर्जेया पूर्वा तु दिधिषुर्मतेत्याह ।” दिधिध्वौ । तस्या द्विरूढायाः पतिर्दिधिषुरित्युच्यते एकम् । “पुनर्भूः पतिरुक्तश्च पुनर्भूदिधिषुस्तथेत्येषो ऽप्यूदंत इति स्वामी ।" सा पुनर्भूर्यस्य द्विजस्य कुटुंबिनी कुटुंबं पुत्रादिपोष्यवर्गस्तद्वती सो ऽग्रेदिधिषूरित्येकम् । “ अग्रेदिधिषुरिति -हस्वांतो ऽपि । For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy