SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १३४ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [मनुष्यवर्गः आलिः सखी वयस्या sथ पतिवत्नी सभर्तृका ॥ वृद्धा पलिक्की प्राज्ञी तु प्रज्ञा प्राज्ञा तु धीमती ।। १२ ।। शूद्र शुद्रस्य भार्या स्याच्छद्रा तज्जातिरेव च ॥ आभीरी तु महाशुद्री जातिपुंयोगयोः समा ॥ १३॥ अर्याणी स्वयमर्या स्यात्क्षत्रिया क्षत्रियाण्यपि ॥ उपाध्यायाप्युपाध्यायी स्यादाचार्यापि च स्वतः ॥ १४॥ आचार्यानी तु पुंयोगे स्यादर्यी क्षत्रियी तथा ॥ उपाध्यायान्युपाध्यायी पोटा स्त्रीपुंसलक्षणा ॥ १५ ॥ I 66 सखी वयस्या त्रयं सख्याः । “ आलिः सखी संतुरालिरालिरावलिरिष्यत इति शाश्वतः । पतिवत्नी सभर्तृका द्वे जीवद्भर्तृकायाः । वृद्धा पलिक्नी । पलितं केशशौक्ल्यं अस्ति यस्याः । द्वे पक्ककेश्याम् । प्राज्ञी प्रज्ञा द्वे या यत्किमपि स्वयं प्रकर्षेण जानाति तस्याः ) | प्राज्ञा धीमती द्वे बुद्धिमत्याः ।। १२ ।। या शूद्रस्य भार्या साविजातीयाऽपि शूद्रीत्युच्यते एकम् । तज्जातिः शूद्रजातिः अन्यभायपि " शूद्रेत्युच्यते । आभीरी महाशूद्री द्वे गोपालिकायाः । जाति पुंयोगयोः महाशूद्रस्य जातौ महाशूद्रस्य स्त्रीत्येवंरूपं पुंयोगे च समा । उभयत्रापि नामद्वयं ङीष्प्रत्ययांतमेवेत्यर्थः ॥ १३ ॥ अर्याणी अर्या द्वे वैश्यजात्युत्पन्नायाः स्त्रियाः । स्वयं वैश्यजातिः भार्या तु यस्य कस्य चिदस्तु इत्यर्थो बोध्यः) । एवं क्षत्रिया क्षत्रियाण (द्वे स्वयं क्षत्रियजाति: भार्या तु यस्य कस्य चित् । उपाध्याया उपाध्यायी द्वे स्वयं या अध्यापिका तस्याम् । उपेत्याधीयते यस्याः सकाशादित्युपाध्याया । पुराकल्पे तु नारीणां व्रतबंधनमिष्यते । अध्यापनं च वेदानां सावित्रीवचनं तथेति पाराशमाधवी यमः । तथा स्वतः स्वयं मंत्रव्याख्याकृदाचार्या स्यात् एकम् । त्रयमपि समानार्थमित्येके ॥ १४ ॥ पुंयोगे आचार्यस्य स्त्रीत्येवंरूपे ऽर्थे आचार्यानीत्येकमु । आचार्यादणत्वं चेति णत्वाभावः । तथा अर्यस्य स्त्रीत्यर्थे अर्थीत्येकम् । एवं क्षत्रियस्य स्त्रीत्यर्थे क्षत्रियी एकम् । उपाध्यायानी उपाध्यायस्य स्त्री उपाध्यायी द्वे उपाध्यायस्य भार्यायाम् । स्त्रीपुंसलक्षणा स्तनश्मश्रुरूपेण स्त्रीपुंस चिन्हेन यक्त पोटेत्युच्युते || १५ || वीरपत्नी वीरः पतिर्यस्याः साः । वीरभार्या द्वे For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy