SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir · द्वितीयं कांडम्. १३३ स्यान्मध्यमा दृष्टरजास्तरुणी युवतिः समे ॥ ८ ॥ समाः स्नुषाजनीवध्वश्चिरिंटी तु सुवासिनी ॥ इच्छावती कामुका स्यादृषस्ती तु कामुकी ॥ ९ ॥ कांतार्थन तु या याति संकेतं सा ऽभिसारिका ॥ पुंवली धर्षिणी बंधक्यसती कुलटेवरी ॥ १० ॥ स्वैरिणी पांशुला च स्यादशिवी शिशुना विना ॥ अवीरा निष्पतिसुता विश्वस्त विधवे समे ॥ ११ ॥ 27 तरुणी तृप्लवनतरणयोः त्रो रश्च लो वेत्यनन् । “तलुनी । तरुणतलुनशब्दौ यौवनवाचिनौ । वयसि प्रथमे इति ङीप् । तलूनः पवने यूनि युवत्यां तलुनी स्मृतेति मेदिनी ।” युवति: “युवतीति ङीषंतेति केचित् । यूनीति ङीपंतो ऽन्यत्र " । द्वे मध्यमवयसि वर्तमानायाः ॥ ८ ॥ स्नुषा जनी “जनिः” वधूः त्रयं पुत्रादिभार्यायाः । “वधूः पत्न्यां स्नुषानार्योः स्पृक्कासारिवयोरपि । नवपरिणीतायां चेति हैमात् वधूरित्येकं नवोढायाः स्त्रिया अपि ।" चिरिंटी “चिरंटी | चिरंटी तु सुवासिन्यां स्याहितीयवयः स्त्रियामिति विश्वप्रकाशः ।" सुवासिनी द्वे किंचिल्लब्धयौवनायां परिणी - तायाम् । सुष्ठु वसति सुवासिनी । “स्ववासिनीत्यपि पाठः । तत्र स्वेषु पित्रादिषु वस्तुं शीलमस्या इति विग्रहः । स्ववासिन्यां चिरिंटी स्याद्वितीये वयसि स्त्रियामिति रुद्र: ' इच्छावती कामुका द्वे यभनादीच्छावत्याः । वृषस्यंती वृषं नरं आत्मनः इच्छति । क्यचि सुगागमः शतृप्रत्ययः उगितश्चेति ङीप् । कामुकी द्वे “अश्ववृषवत्" मैथुनेच्छावत्याम् ॥ ९ ॥ या कांतार्थिनी भर्तुः संकेतस्थानं गच्छति सा ऽभिसारिका । यदुक्तम् । हित्वा लज्जाभये लिष्टा मदेन मदनेन या । अभिसारयते कांतं सा भवेदभिसारिकेति । 1 एकम् । पुंश्चली पुंसो भर्तुः सकाशाञ्चलति पुरुषांतरं गच्छति । धर्षिणी “ धर्षणी कृबधातोरनिः कर्षणिः । "" बंधकी असती कुलटा इत्वरी ॥ १० ॥ स्वैरिणी पांशुला अष्ट स्वैरिण्याः । या शिशुना रहिता सा अशिश्वी एकम् । निष्पतिसुता पतिपुत्ररहिता सा अवीरा एकम् । “पतिपुत्रवती वीरेति नाममाला । विश्वस्ता विफलं श्वसिति स्म श्वस प्राणने । विश्वस्तो जातविश्वासो विश्वस्ता विधवा स्त्रियामिति विश्वः । विधवा द्वे रंडायाः । (पांसुला ऽथ स्यादित्यपि पाठः ॥ ११ ॥ आलिः "" For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy