SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १३२. सटीकाम नुष्यवर्गः पत्नी पाणिग्रहीती च द्वितीया सहधामणी ॥५॥ भार्या जायाऽथ पुंभूग्नि दाराः स्यात्तु कुटुंबिनी ॥ पुरंधी सुचरित्रा तु सती साध्वी पतिव्रता ॥६॥ कृतसापनिकाऽध्यूढाधिविन्नाथ स्वयंवरा ॥ पतिवरा च वर्याथ कुलस्त्री कुलपालिका ॥७॥ कन्या कुमारी गौरी तु नमिका ऽनागतार्तवा ॥ पूरणी द्वितीया । द्वितीया तिथिगेहिन्योर्द्वितीयः पूरणे द्वयोरिति हेमचंद्रः।" सहधर्मिणी सह धर्मोऽस्ति यस्याः । पत्या सह कर्मस्वधिकारात् । सधर्मिणीत्यपि॥५॥ भार्या जाया " जायते ऽस्याम् । जायायास्तद्धि जायात्वं यदस्यां जायते पतिरिति मनुः ।" दाराः “दारयंति भ्रातृन् दृ विदारणे णिजंतः।" सप्त परिणीतायाः स्त्रियाः । तत्र दारशब्दो नित्यं पुंसि बहुवचनांतश्च । “दारशब्दष्टाबंतो ऽपि । क्रोडा हारा तथा दारा त्रय एते यथाक्रमम् । क्रोडे हारे च दारेषु शब्दाः प्रोक्ता मनी. षिभिरिति हेमचंद्रात् । पाणिगृहीतोऽस्याः पाणिगृहीती ङीषंता । कुटुंबिनी कुटुंबमस्ति यस्याः सा । कुटुंबं पोष्यवर्गे चेत्यमरमाला । पुरंध्री “पुरंध्रिः" द्वे पतिपुप्रादिमत्याः । सुचरित्रा सती साध्वी पतिव्रता चत्वारि पतिसेवातत्परायाः ॥ ६॥ कृतसापत्निका अध्यूढा अधिविन्ना त्रीणि कृतानेकविवाहस्य पुंसो या प्रथमोढा स्त्री तस्याः । कृतं सापत्निकं सपत्नीभावो ऽस्याः सा । “कृतसापत्न केति पाठः ।" स्वयंवरा पतिंवरा वर्या त्रीणि स्वेच्छया पतिवरणोद्युक्तायाः । स्वयं वृणुते स्वयंवरा कुलस्त्री कुलपालिका द्वे कुलवत्याः ॥ ७॥ कन्या कुमारी हे प्रथमवयसि वर्तमानायाः । गौरी ननिका अनागतार्तवा त्रीणि अदृष्टरजस्कायाः । अनागतं अप्राप्त आर्तवं रजो यस्याः सा अष्टवर्षा भवेद्गौरी दशमे ननिका भवेदिति तस्या अवांतर. भेदः । अष्टवर्षा भवेत्कन्या नववर्षा च रोहिणी ॥ दशवर्षा भवेत् गौरी चात अवं रजस्वलेति स्मृतिवचनम् । यावत् षोडशसंख्यमब्दमुदिता बाला ततत्रिंशतं तावत्स्यात्तरुणीति बाणविशिखैः संख्या तु यावद्भवेत् ॥ सा प्रौढेत्यभिधीयते कविवरैर्वृद्धा तदूर्ध्वं स्मृता निंद्या कामकलाकलापविधिषु त्याज्या सदा कामिभिः॥ बालेति गीयते नारी यावद्वर्षाणि षोडश ॥ श्यामा षोडशवार्षिकीति । गौरी त्वसंजातरजा इत्यप्युक्तं भवति । मध्यमा दृष्टरजाः द्वे प्रथमप्राप्तरजोयोगायाः । For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy