SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १३० www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [ मनुष्यवर्गः वृंदभेदाः समैर्वर्गः संघसार्थौ तु जंतुभिः ॥ सजातीयैः कुलं यूथं तिरश्रां पुन्नपुंसकम् ॥ ४१ ॥ पशूनां समजोऽन्येषां समाजो ऽथ सधर्मिणाम् ॥ स्यान्निकायः पुंजराशी तूत्करः कूटमस्त्रियाम् ॥ ४२ ॥ कापोतशौक मायूरतैत्तिरादीनि तणे || गृहासक्ताः पक्षिमृगाश्छेकास्ते गृह्यकाश्च ते ॥ ४३ ॥ ॥ इति सिंहादिवर्गः ॥ ॥ ५ ॥ मनुष्या मानुषा मर्त्या मनुजा मानवा नराः || स्युः पुमांसः पंचजनाः पुरुषाः पूरुषा नरः ॥ १ ॥ "" "" शैलवर्गः । सजातीयैर्विजातीयैरपि जंतुभिः प्राणिभिरेव समूहः संघः सार्थ इति चोच्यते द्वे । यथा पशुसंघः वणिक्सार्थः । सजातीयैर्जतुभिरेव कुलम् । यथा विप्रकुलम् । कुलं जनपदे गोत्रे सजातीये गणे ऽपि चेति एकम् । तिरश्चामेव सजातीयानां समूहे यूथम् | यथा मृगयूथम् | एकम् ॥ ४१ ॥ पशूनामेव वृंदं समज इत्युच्यते एकम् । अन्येषां पश्वतिरिक्तानां वृंदं समाजः । यथा श्रोत्रियसमाज: एकम् । सधर्मिणां एकधर्मवतां समूहो निकायः । यथा श्रोत्रियनिकायः । पुंज: " पिंजः राशिः उत्करः कूटं चत्वारि धान्यादिराशेः । " कूटं पुन्नपुंसकम् ॥ ४२ ॥ तद्गणे तेषां कपोतादीनां समूहे कापोतादीनि स्युः । यथा कपोतानां समूहः कापोतम् । शुकानां समूहः शौकम् । एवं मयूराणां समूहः मायूरम् । तित्तिराणां समूहस्तैत्तिरम् । कपोतादिभ्यः अनुदात्तादेरन् । आदिशब्दात् काकमित्यादि । ये गृहांसक्ताः क्रीडार्थं पंजरादौ स्थापिता इति यावत् । ते पक्षिमृगाः छेका गृह्यका इति च स्युः द्वे । गृह्या एव गृह्यकाः । स्वार्थे कन् ॥ ४३ ॥ इति सिंहादिवर्गः ॥ ५ ॥ मनुष्याः मनोरपत्यानि पुमांसः मनोर्जाताविति पाणिनिसूत्रेण यत् प्रत्ययः षुगागमश्च । मानुषाः मर्त्याः मनुजाः मानवाः नराः पुमांसः पंचजनाः (पंचभिः पृथिव्यादिमहाभूतैर्जन्यते प्रादुर्भवतीति ॥ पुरुषाः पुरुषाः नरः एकादश मनुष्याणाम | नृशब्दस्यैकवचनं तु ना । पुमांस इत्यादि पंचकं तु पुंव्यक्तावपि प्रायेण प्रयुज्यते । For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy