SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir . १२८ सटीकामरकोशस्य सिंहादिवर्गः नगौकोवा जिविकिरविविष्किरपतत्रयः॥३३॥ नीडोद्भवा गरुत्मतः पित्संतो नभसंगमाः॥ तेषां विशेषा हारीतो मद्गुः कारंडवः प्लवः॥ ३४ ॥ तितिरिः कुकुभो लावो जीवंजीवश्चकोरकः॥ कोयष्टिकष्टिटिभको वर्तको वर्तिकादयः॥ ३५॥ गरुत्पक्षच्छदाः पत्रं पतत्रं च तनूरुहम् ॥ स्त्री पक्षतिः पक्षमूलं चंचुस्रोटिरुभे स्त्रियौ ॥ ३६ ॥ वाजाः पक्षाः संति अस्य । विकिरः विः विष्किरः पतत्रिः ॥ ३३ ॥ नीडोद्भवः गरुत्मान् पित्सन् नमसंगमः सप्तविंशतिः पक्षिमात्रस्य । शकुंतिरिदंतः । शकुंतो .ऽदंतः। विरित्येकाक्षरं नाम । नभसंगम इति पंचाक्षरम् । अथ तेषां विशेषा वक्ष्यंत इति शेषः । हारीतो देशांतरभाषया हरिल “तिलगिरू पक्षी" इति ख्यातः । " हारित इतीकार-हस्वो ऽपि ।” मनुः जलकाकः " पाणकावळा इति ख्यातः ।" कारंडवः करडुवा इति ख्यातः । “अयं काकतुंडो दीर्घपादः कृष्णवर्णः।" प्लवः पुडेरी “ पाणकोंबडा" इति ख्यातः । “ प्लवः प्लक्षे प्लुतौ कपौ । शब्दे कारंडवे म्लेच्छजातौ भेलकभेकयोः । क्रमनिम्नमहीभागे कुलके जलवायसे । जलांतरे प्लवं गंधतृणे मुस्तकभिद्यपीति हेमचंद्रः" ॥ ३४ ॥ तित्तिरिः “ ति. त्तिरः" । कपोतलावतित्तिरा इति वाचस्पतिः । तित्तिर पक्षी इति प्रसिद्धः । कुकुभो वनकुक्कुट: लावो ता " लावा पक्षी " इति प्रसिद्धः । जीवंजीवो मयूरतुल्यपत्रकः " जीवं जीवयतीति जीवंजीवः । तदर्शनेन विषनाशनात् । जीव. जीवो जिवाजिवश्वेत्यपि ।" चकोरकश्वकोरः । यो ऽयं चंद्रिकया तप्यति । कोयष्टिकः कोका इति ख्यातः । टिटिभकः “ टिटिभकः टिट्टिभ इत्यपि ।" टिटवी इति ख्यातः । वर्तकश्चित्रपक्षः पक्षिभेदः “ गांजीण पक्षी इति ख्यातः।" वत्तिका वटई “ वनचटक ” इति प्रसिद्धा । स्त्रियां वर्तकेत्यपि । आदिशब्दात्. सारिका कपिंजलादयः । एकैकम् ॥ ३५ ॥ गरुत् पक्षः छद्ः पत्रं पतत्रं तनूरुहं षट पक्षस्य । गरुतौ पक्षौ छदौ । पक्षसी च स्मृतौ पक्षाविति शुभांकः । “गरुत्पतरौ छदमिति क्लीबकांडे बोपालितः।" पक्षस्य मूलं पक्षतिरित्युच्यते । “ पक्षतीति कीषतो ऽपि " एकम् । चुचुः त्रोटिः द्वे पक्षितुंडस्य । चंचूश्चंचुस्तथा त्रोटिरिति हला For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy