SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १२६ सटीकामरकोशस्य [सिंहादिवर्गः हंसस्य योषिहरटा सारसस्य तु लक्ष्मणा ॥ २५ ॥ जतुकाऽजिनपत्रा स्यात्परोष्णी तैलपायिका ॥ वर्वणा मक्षिका नीला सरघा मधुमक्षिका ॥ २६ ॥ पतंगिका पुत्तिका स्यादंशस्तु वनमक्षिका ॥ दंशी तज्जातिरल्पा स्याधोली वरटा द्वयोः ॥ २७॥ शृंगारी झीरुका चीरी झिल्लिका च समा इमाः॥ स्त्रीलिंगकांडे रत्नकोशः ।" आटि: "आटी" आडिः “आडी" त्रयं स्त्रीलिंगम् । आडीति ख्यातस्य पक्षिणः । “आटिः पुलिंगो ऽपि कचित् ।” बलाका बिसकं. ठिका द्वे बालढोंक “बगळा" इति ख्यातस्य बकभेदस्य । बिसमिव दीर्घः कंठोऽस्याः बिसकंठिका हंसस्य योषित् स्त्री वरटा रयादित्येकम् । सारसस्य स्त्री तु लक्ष्मणेत्युच्यते । " निर्मकारो ऽपि । लक्ष्मणश्चैव सारस इत्यमरमाला । लक्षणं नाम्नि चिन्हे च सारसस्य तु लक्षणेति विश्वः ।” एकम् ॥ २५ ॥ जतुका "जतूका" अजिनपत्रा द्वे बटुरी “चामचिराई" इति ख्याते पक्षिभेदे । अजिनं चर्म तद्रपे पत्रे पक्षौ यस्याः सा । परोष्णी “परोष्टी ।" तैलपायिका द्वे पक्षयुक्ते कीटकविशेषे तेलडुवा “ वाघूळ" इति ख्याते । तैलं पिबतीव तैलपायिका । चत्वार्यपि जतुकाया इत्येके । वर्वणा “ बर्बणा” मक्षिका “ मक्षीका" नीला त्रयं मक्षिकायाः । सरघा मधुमक्षिका द्वे मक्षिकाभेदस्य “ मधमाशी इति ख्यातस्य" ॥ २६ ॥ पतंगिका पुत्तिका द्वे मधुमक्षिकाभेदस्य । इयं तु सरघातः क्षुद्रा यन्निमित्तो मधुभेदः । माक्षिकं तैलवर्णं स्याद्धृतवर्णं तु पौत्तिकमिति । दंशः वनमक्षिका द्वे " मोठी डांस रानमाशी" इति ख्यातस्य । तेषां दंशानां जातिर्याऽल्पा सा दंशीत्युच्यते । “ एक डांस इति ख्यातस्य ।” गंधोली वरटा " वरटी । वरटा वरटी हस्योस्तत्पतौ वरटः स्मृत इति तारपालः ।" द्वे वरटी " गांधीणमाशी" इति ख्यातस्य । तत्र गंधोली ङीषंता । वरटा स्त्रीपुंसयोः ॥ २७ ॥ भुंगारी झीरुका " झीरिका झिरुका झिरिका झिरीका” चीरी झिल्लिका “ झिल्लीका झिल्लका चीलिका चिल्लका” चत्वारि झिल्ली “ मुरकूट चिलट इत्यादि ख्यातस्य ।” झी इति रौति झीरुका । ची इति रौति चीरी । या हि For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy