SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. १२५ आतापिचिल्लौ दाक्षाय्यगृध्रौ कीरशुको समौ ॥२१॥ कुङ् क्रौंचो ऽथ बकः कव्हः पुष्कराव्हस्तु सारसः॥ कोकचक्रश्चक्रवाको रथांगाव्हयनामकः ॥ २२ ॥ कादंबः कलहंसः स्यादुत्क्रोशकुररौ समौ ॥ हंसास्तु श्वेतगरुतश्चकांगा मानसौकसः॥ २३॥ राजहंसास्तु ते चंचुचरणैर्लोहितैः सिताः॥ मलिनैमल्लिकाक्षास्ते धार्तराष्ट्राः सितेतरैः॥ २४ ॥ शरारिराटिरा डिश्च बलाका बिसकंठिका ॥ श्रुदक्षिस्पृहिगृहीत्याय्यः । दक्षाय्यः । दक्षाय्यस्यायं अण दाक्षाय्यः"। कीरः शुकः द्वे कीरस्य "रावा, राघू, पोपट इति ख्यातस्य" ॥ २१ ॥ क्रु क्रौचः "कुंच:" द्वे ठेक “कुरकुंचा" इति ख्यातस्य । तत्र क्रुङ् चांतः । कुंचौ । बकः कव्हः द्वे बकस्य " बगळा इति ख्यातस्य" । के जले व्हयते शब्दं कुरुते कव्हः । कंक इति पाठः "अयं पाठः कुत्रास्तीति न दृश्यते । किंतु सर्वत्र कव्ह इत्येव ।" पुष्कराम्हः सारसः द्वे सारसस्य । पुष्कराव्हः पद्मपर्यायनामकः । कोकः “कुकः” चक्रुः चक्रवाकः रथांगः चत्वारि चक्रवाकस्य । रथांगस्य चक्रस्य ये आव्हयाः नामानि तन्नामकः ॥२२॥ कादंबः कलहंसः द्वे कलो मधुरवाक् स चासौ हंसश्च तस्य बदक इति प्रसिद्धस्य । उत्क्रोशः कुररः द्वे कुररस्य “कुररी इति प्रसिद्धस्य ।" हंसः भवेद्वर्णागमाद्धसः । पृषोदरादिः । श्वेतगरुत् चक्रांग: मानसौकाः चत्वारि हंसस्य । बहुत्वविवक्षायां.. बहुवचनम् ॥ २३ ॥ ये सिताः देहेन शुक्लाः चंचुचरणैर्लोहितैरुपलक्षिता हंसास्ते राजहंसाः स्युरित्येकम् । चंचुसहिताश्चरणास्तैरिति विग्रहः। अन्यथा प्राण्यंगत्वादेकवचनं दुर्वारम् । लक्षणे तृतीया । “हंसानां राजा राजहंसः । राजदंतादिषु पाठात् परनिपातः ।” मलिनैरीषद्धनैश्चंचुचरणैस्ते सिता हंसा मल्लिकाक्षा इत्युच्यते । एकम् । मल्लिकाकाराणि अक्षीणि येषां ते । “ मल्लिकाख्या इत्यपि" । सितेतरैः । कृष्णवर्णैः चंचुचरणैरुपलक्षितास्ते धार्तराष्ट्राः स्युः धृतराष्ट्र भवाः।धृतराष्ट्रः सुराज्ञि स्यात्पक्षिक्षत्रियभेदयोरिति रभसः । एकम् ॥ २४ ॥ शरारिः “ शरातिः शरालिः शराली शराटिः शराडिः । आडिः शरालिर्वरटी गंधोली वानरी कपीति For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy